कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 335, कुल 1079 में से
संदर्भ में पढ़ें३४ कथासरित्सागर तात्त्विकेन च देहेन भजते स्म स भूयसा। महल्लिकां प्रियतमां प्रह्लादासुरकन्यकाम् ॥३४३॥ एकदा च निशि स्वैरं स्थितस्तां स महल्लिकाम्। एवं सूर्यप्रभोऽपृच्छदभिजातां कथान्तरे ॥३४४॥ प्रिये रात्रौ सहायाते ये द्वे सख्यौ तदा तव। ते कुतस्त्ये न पश्यामि किं च ते क्व गते इति ॥३४५॥ ततो महल्लिकाऽवादीत् सुष्ट्वहं स्मारिता त्वया। ते न द्वे एव ताः सन्ति वयस्या द्वादशेह मे ॥३४६॥ मषितुम्बेण च स्वर्गान्नीत्वा अपहृत्य ताः। एकाऽमृतप्रभा नाम द्वितीया केशिनी तथा ॥३४७॥ पर्वतस्य मुनेरेते तनये शुभलक्षणे। कालिन्दीति तृतीया च चतुर्थी मद्रिकेति च ॥३४८॥ तथा दर्पक्रमालेति पञ्चमी चारुलोचना। एता महामुनेस्तिस्रो देवलस्यात्मसम्भवाः ॥३४९॥ षष्ठी सौदामनी नाम सप्तमी चोज्ज्वलाभिधा। एत हाहाभिधानस्य गन्धर्वस्य सुते उभे ॥३५०॥ अष्टमी पीवरा नाम गन्धर्वस्य हुहोः सुता। नवम्यब्जमिका नाम भासस्य दुहिता विभोः ॥३५१॥ पिक्कसाच्च गणाज्जाता दशमी स्रंसरावली। एकादशी मालिनीति नाम्ना कम्बलनन्दिनी ॥३५२॥ नाम्ना मन्दारमालेति द्वादशी वसुकन्यका। अप्सरःसु समुत्पन्ना सर्वा दिव्यस्त्रियस्तु ताः ॥३५३॥ पातालं प्रथमं नीतास्ताञ्चोद्वाहे कृते मम। तुभ्यं मया च देयास्तास्तद्युक्ता स्यां सदा यथा ॥३५४॥ प्रतिज्ञातं मया चैतत्तासां स्नेहो हि तासु मे। तातोऽप्युक्तो मया तन न दत्ता द्वावपेक्षया ॥३५५॥ एतच्छ्रुत्वा गर्वैदक्षस्तां स सूर्यप्रभोऽब्रवीत्। प्रिय महानुभावा त्वमहं पुर्यां पश्च त्विदम् ॥३५६॥ १ ततस्ताः।