भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 339, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 339

इति ताभ्यामादिष्टा देवीभ्यां ते हर्षेण गत्वा तम्। कश्यपमुनिं मयाद्या ददृशुर्दिव्याश्रमे तत्र॥३७०॥ द्रुतशुद्धहाटकाभं तेजोमयमाधमे च देवानाम्। ज्वालाकपिशजटाधरमनलसमानं दुराधर्षम्॥३७१॥ उपगम्य च तस्य पादयोस्ते निपतन्ति स्म सहानुगाः क्रमेण। अथ सोऽपि मुहुः कृतोचिताशीः परितोषादुपवेश्य तानुवाच॥३७२॥ आनन्दः परमो ममैष यदमी दृष्टाः स्थ सर्वे सुताः। श्लाघ्यस्त्वं मय सत्पथादप्रसितो यः सर्वविद्यास्पदम्। धन्यस्त्वं च सुनीथ येन गतमप्याप्तं पुनर्जीवितं। त्वं सूर्यप्रभ पुण्यवांश्च भविता यः खचराणां पतिः॥३७३॥ तदयं पथि वर्तितव्यमधुना योऽक्ष्यमस्मद्गुरोः। भोक्ष्यध्ये सततं सुखानि परमामासाद्य येन धियम्। नैव स्याच्च पुरा यथा परिभवो भूयः परभ्योऽत्र वो। धर्मातिक्रमिणो सुरा हि मुरजिच्चक्रस्य याता वधम्॥३७४॥ ये चासुरा देवहताः सुनीथ मर्त्यप्रवीरास्त इहावतीर्णाः। योऽभूत्सुमुण्डीक इहानुजस्ते सूर्यप्रभः सैष किसाद्य जातः॥३७५॥ अन्येऽपि तेऽमी असुरा वयस्या अस्यैव जाताः खलु बान्धवाश्च। यः शम्बराख्यश्च महासुरोऽभूत्सोऽस्य जातः सचिवः प्रहस्तः॥३७६॥ यश्चासुरोऽभूत्त्रिशिराः स जातः सिद्धार्थनामा सचिवो मयस्य। वातापिरित्यास च दानवो यः प्रज्ञाढ्यनामास्य स एव मन्त्री॥३७७॥ उलूकनामा दनुजश्च योऽभूत्सोऽस्य वयस्योऽस्य धूम्रकेतूरास्य। योऽन्य वयस्योऽस्य च वीतभीतिः स कालनामाप्यभवत्सुरातिः॥३७८॥ यश्चैष भासः सचिवोऽस्य सोऽस्य दैत्योऽवतीर्णो द्युपबर्हनामा। योऽस्य प्रभासश्च स एष दैत्यो वत्सावतीर्णः प्रबलप्रभिधानः॥३७९॥ महात्मना रत्नमयेन येन देवेर्विपक्षैरपि याचितेन। कृत्वा शरीरं यखद्योऽवतीर्णं रत्नानि जातान्यस्थीनि यस्मात्॥३८०॥ ततोपतच्चण्डिकयास्य देव्या वरोऽप्यवेहानुगतः स दत्तः। यन प्रभासोऽद्य स एष जातो महाबलो दुःसहहो रिपूणाम्॥३८१॥ यौ दानवाभूतां पूर्वं सुन्दोपसुन्दनामानौ। तावेतो सर्वदमनमयस्कूरावस्य मन्त्रिणौ जातौ॥३८२॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 339, कुल 1079 में से · BharatKosha