कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 357, कुल 1079 में से
संदर्भ में पढ़ें३२६ कथासरित्सागर श्रुतशर्मणि यातेऽथ विद्याधरबलान्विते । एत्य सूर्यप्रभं दूतस्तदीय इदमभ्यधात् ॥८०॥ त्वां समादिशति धीमाञ्छ्रुतशर्मा प्रभुर्यथा । समर्पयेहस्तूणं मे कार्यं चेज्जीवितेन ते ॥८१॥ सूर्यप्रभोऽथ प्रत्याह दूतेव ब्रूहि गच्छ तम्। स्वचेह एव भविता तूर्णस्ते मन्दरायुधः ॥८२॥ एतत्प्रतिवचः श्रुत्वा गते दूते पराङ्मुखे । प्राहसन् रभसोक्तिं तां सर्वे ते श्रुतशर्मणः ॥८३॥ सूर्यप्रभोऽथ सानन्दमाश्लिष्योने सुमेरुणा। दिष्ट्याद्य शाम्भवं वाक्यं फलितं तदसंशयम् ॥८४॥ तूणरत्ने हि सिद्धेऽस्मिन्सिद्धा ते चक्रवर्तिता । तदेहि साधयेदानीं धनूरत्नं निराकुरु ॥८५॥ एतत्सुमेरोः श्रुत्वा ते तस्मिन्नेवाप्रयायिनि । सूर्यप्रभादयो जग्मुर्हेमकूटाचलं तत ॥८६॥ पार्श्वे तस्योत्तरे ते च मानसाख्यं सरोवरम् । प्रापुः समुद्रनिर्माभे विधातुरिव वर्णकम् ॥८७॥ मुखानि दिव्यनारीणां क्रीडन्तीनां जलान्तरे । निह्नुवानं मधूद्भूतैरुत्फुल्लैः कनकाम्बुजैः ॥८८॥ अवलोकयन्ति यावच्च सरसस्तस्य ते श्रियम् । तावत्तमाययुः सर्वे श्रुतशर्मादयोऽपि ते ॥८९॥ तत सूर्यप्रभस्ते च होमं चक्रुर्घृताम्बुजैः । क्षणाच्चात्रोग्रवायुर्धोरो मेघस्तस्मात् सरोवरात् ॥९०॥ स व्याप्य गगनं मेघो महद्वर्षमवासृजत् । तन्मध्ये च पपातैको नागः कालोऽम्बुदात्ततः ॥९१॥ सुमेर्वाक्यादुत्थाय गाढं सूर्यप्रभेण यत् । गृहीतो विध्यमानोऽपि ततः नागो भवद्धनुः ॥९२॥ तस्मिन् धनुष्ट्वमापन्ने द्वितीयोऽभ्रात्ततोऽपतत् । नागो विषाग्नित्रासात्तस्योच्चैरेववेष्टकः ॥९३॥ सोऽपि सूर्यप्रभेनाशु गृहीतस्तेन पूर्ववत्। धनुर्गुणत्वं सम्प्राप मेघश्चाशु मनाक्ष सः ॥९४॥