BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 37 of 1079

Read in context
Page 37

९२ कथासरित्सागर जगाद च मया ज्ञेयं ज्ञाता विद्याप्रभावतः । इहागता सुता सर्वं वृत्तान्तं चात्र वेद्म्यहम् ॥१४६॥ चक्रवर्तिविमानं हि भाव्यग्रेऽमुष्य तादृशम् ॥१४७॥ अनुमन्यस्व तद्द्रक्ष्यस्यचिरादेवैतमात्मजम् । रत्नप्रभावधूयुक्तं युवराजमिहागतम् ॥१४८॥ एवं वत्सेशमभ्यर्थ्य तेनानुमतवाञ्छितः । सपुत्रं कल्पयित्वा तद्विमानं निजविद्यया ॥१४९॥ तमारोप्य नृपानन्दसूनुं रत्नप्रभायुतम् । नरवाहनदत्तं च सहितं गोमुखादिभिः ॥१५०॥ यौगन्धरायणेनापि पित्रानुप्रषितेन च। हेमप्रभो निनाय स्वं पुरं काञ्चनशृङ्गकम् ॥१५१॥ नरवाहनदत्तश्च ददर्श प्राप्य तत्पुरम् । श्वाशुरं काञ्चनमयं हेमप्राकारभासुरम् ॥१५२॥ रश्मिप्रतानैर्निर्यद्भिर्बहरुकृतमिवाभितः । प्रसारितानेकभुजं जामातृप्रीतिसम्भ्रमात् ॥१५३॥ तत्र तां विधिवत्तस्मै राजा हेमप्रभो ददौ । रत्नप्रभां महारम्भो हरयेऽब्धिरिव श्रियम् ॥१५४॥ प्रायच्छद्रत्नराशींश्च तदा तस्मै स भास्वरान् । प्रवीप्तानेकवीबाहुवलित्रिभ्रमशालिनः ॥१५५॥ सोत्सवस्य पुरे चास्य राज्ञो वित्तानि वर्षतः । स्रग्धवस्त्रा इव बभुः सपताका गृहा अपि ॥१५६॥ नरवाहनदत्तश्च निर्व्यूढोद्वाहमङ्गलः । दिव्यभोगभुगत्रास्त स रत्नप्रभया समम् ॥१५७॥ रेमे च दिव्यान्युद्यानवापीदेवकुलानि सः । पश्यंस्तया समादृत्य तद्विद्याबस्ततो नमः ॥१५८॥ एवं च तत्र कतिचिद्दिवसानुषित्वा विद्याधराधिपपुरे स वधूसहायः । वत्सेश्वरस्य तनयः स्वपुरीं प्रयातुं यौगन्धरायणमतेन मतिं चकार ॥१५९॥