भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 385, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 385

३५४ कथासरित्सागर परसैन्येऽधिकाः सन्ति यद्यप्यस्मद्वलस्य ते। न पर्याप्ता भविष्यन्ति सप्रसादे महेश्वरे ॥३३॥ इति यावत्सुनीथं स ब्रवीति स मयासुरः। श्रुतशर्मपितुः पार्श्वादूतोऽन्यस्तावदाययौ ॥३४॥ स चोवाच त्रिकूटाधिपतिरेवं ब्रवीति वः। सङ्ग्रामो नाम शूराणामुत्सवो हि महानयम् ॥३५॥ सस्यैषा सङ्कटा भूमिस्तस्मादागम्यतामितः। यामः कलापग्रामाख्यं प्रदेशं विपुलान्तरम् ॥३६॥ एतच्छ्रुत्वा सुनीथाद्याः सैन्यैः सह तथेति ते। सर्वे कलापग्रामं च सूर्यप्रभयुता ययुः ॥३७॥ श्रुतधर्मादयस्तेऽपि तथैव समरोन्मुखाः। तमेव देशमाजग्मुर्विद्याधरबलैर्वृताः ॥३८॥ श्रुतशर्मबले दृष्ट्वा गजाम्त्सूर्यप्रभादयः। आनाययन्गजानीकं स्वं विमानाधिरोपितम् ॥३९॥ ततः सेनापतिश्चक्रे सेनायां श्रुतशर्मणः। दामोदरो महासूचिव्यूहं विद्याधरोत्तमः ॥४०॥ तस्य पार्श्वे स्वयं तस्थौ श्रुतशर्मा समन्त्रिकः। अग्रे दामोदरश्चासीदन्यत्रान्ये महारथाः ॥४१॥ सैन्ये सूर्यप्रभस्यापि प्रभासोऽनीकिनीपतिः। अर्धचन्द्रं व्यधाद्व्यूहं मध्ये तस्याभवत्स्वयम् ॥४२॥ स कुञ्जरकुमारेण प्रहस्तेनास्य कोष्ठयोः। सूर्यप्रभसुनीथाद्यास्तस्थुः सर्वेऽत्र पृष्ठतः ॥४३॥ सुमेरौ तत्समीपस्थे ससुवासकुमारके। आहन्यन्त रणातोद्यान्युभयोरपि सैन्ययोः ॥४४॥ तावच्च गगनं देवैः संग्रामं द्रष्टुमागतैः। सेन्द्रैः सलोकपालैश्च साप्सरस्करपूरयत् ॥४५॥ आययौ चात्र विश्वेशः शङ्करः पार्वतीयुतः। देवताभिर्गणैर्मूर्तेर्मतिभिश्चाप्यनुद्रुतः ॥४६॥ १ अग्रे सूचिमुखमिव तीक्ष्णं पश्चाच्च विपुलं सेनासन्निवेशं निर्मितवान्। २ अर्धचन्द्राकारः सेनासन्निवेशः।

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 385, कुल 1079 में से · BharatKosha