कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 39 of 1079
Read in context२४ कथासरित्सागर श्वश्र्वा ततो रचितमङ्गलसंविधान- सम्पूजितः ससचिवः श्वशुरेण भूयः। तेनैव पुत्रसहितेन सह प्रतस्थे कान्तासखस्तदधिरुह्य पुनर्विमानम् ॥१६०॥ प्राप्याशु तां प्रमदनिर्भरवत्सराज- बद्धोत्सवो स जननीनयनामृताभः। रत्नप्रभां वधूमथ स्वपुरीं विवेश हेमप्रभेण ससुतेन सहानुगेण ॥१६१॥ वत्सेश्वरोऽपि सह वासवदत्तया तं पावार्तं समभिनन्द्य सुतं वधूं च। हेमप्रभं सतनयं विभवानुरूपं सम्बन्धिर्न मवमपूजयदूर्जितश्रीः ॥१६२॥ अथ विद्याधरराजः तस्मिन्नापृच्छ्य वत्सराजादीन्। उत्पत्य नमः ससुते गतवति हेमप्रभे स्वपुरम् ॥१६३॥ नरवाहनदत्तोऽसौ रत्नप्रभया समदनमञ्जुकया। सह सुखितस्तत्रैवीदिवसः सचिवैर्निजैर्युक्तः ॥१६४॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके प्रथमस्तरङ्गः।
द्वितीयस्तरङ्गः रत्नप्रभाकथा (पूर्वानुवृत्ता) एवं विद्याधरीं भार्या भव्यां रत्नप्रभां नवाम्। तस्य प्राप्तवतोऽन्येद्युस्तद्वेश्मनि तया सह ॥१॥ नरवाहनदत्तस्य स्थितस्य प्रातराययुः। दर्शनार्थमुपद्वारं सचिवा गोमुखादयः ॥२॥ द्वाःस्थया क्षणमद्येषु तेष्वत्रावेदितेष्वथ। प्रविष्टेष्वावृतवदनां द्वाःस्थां रत्नप्रभाम्यधात् ॥३॥ द्वारमेषां न रोद्धव्यमिह प्रविशतां पुनः। आर्यपुत्रवयस्यानां स्वं शरीरममी हि नः ॥४॥