कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 41 of 1079
Read in context२४ कथासरित्सागर श्वश्र्वा ततो रचितमङ्गलसंविधान- सम्पूजितः ससचिवः श्वशुरेण भूयः । तेनैव पुत्रसहितेन सह प्रतस्थे कान्तासखस्तदधिरुह्य पुनर्विमानम् ॥१६०॥ प्राप्याथ तां प्रमदनिर्भरवत्सराज- बद्धोत्सवां स जननीनयनामृतौघः । रत्नप्रभां दधदथ स्वपुरीं विवेश हेमप्रभेण ससुतेन सहानुगीतः ॥१६१॥ वत्सेश्वरोऽपि सह वासवदत्तया तं पादानतं समभिनन्द्य सुतं वधूं च । हेमप्रभं सतनयं विभवानुरूपं सम्बन्धिनं समभिपूजयदूर्जितश्रीः ॥१६२॥ अथ विद्याधरराजे तस्मिन्नापृच्छ्य वत्सराजादीन् । उत्पत्य नभः ससुते गच्छति हेमप्रभे स्वपुरम् ॥१६३॥ नरवाहनदत्तोऽसौ रत्नप्रभया समदमच्छुकया । सह सुखितस्तदनेकैर्दिवसैः सखिभिर्निजैर्युक्तः ॥१६४॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे रत्नप्रभालम्बके प्रथमस्तरङ्गः ।
द्वितीयस्तरङ्गः रत्नप्रभाकथा (पूर्वानुवृत्ता) एवं विद्याधरीं भार्यां भव्यां रत्नप्रभां नवाम् । तस्य प्राप्तवतोऽन्येद्युस्तद्वेश्मनि तया सह ॥१॥ नरवाहनदत्तस्य स्थितस्य प्रातराययुः । दर्शनार्थमुपद्वारं सचिवा गोमुखादयः ॥२॥ द्वारस्थया क्षणहृदपु तेष्वत्रावेदितेष्वथ । प्रविष्टेष्वादृतश्चैतां द्वारस्थां रत्नप्रभाम्यभात् ॥३॥ द्वारमेषां न रोद्धव्यमिह प्रविशतां पुनः । मार्यपुत्रवयस्यानां स्वं शरीरममी हि नः ॥४॥