भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 425, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 425

१९० कथासरित्सागर ततस्तं राज्यसाहाय्यसहं मत्वा द्विजोत्तमम्। सस्तुवन्बहु मेने स राजा सर्वातिशायिनम्॥२९॥ सा त्वशोकवती राज्ञी तस्य रूपं गुणांश्च तान्। दृष्ट्वा श्रुत्वा द्विजस्याभूत्सद्यस्तद्गतमानसा॥३०॥ एवं चेन्नाप्नुयां नाहं तत्किं मे जीविते फलम्। इति सञ्चिन्त्य युक्त्या सा राजानमिदमब्रवीत्॥३१॥ आर्यपुत्र प्रसीदाज्ञां देह्यस्मै गुणधर्मणे। यथा मां शिक्षयत्येष वीणां वादयितुं प्रभो॥३२॥ अस्यैतदद्य दृष्ट्वा हि वीणावादननैपुणम्। उत्पन्नः कोऽप्ययं सद्य मम प्राणाधिको रसः॥३३॥ तच्छ्रुत्वा गुणशर्माणं स राजा निजगाद तम्। वत्सस्त्रीवादनं देषीमिमां शिक्षय सर्वथा॥३४॥ यथादिशसि कुर्मोऽत्र प्रारम्भं शुभेऽहनि। इत्युक्तवामन्त्र्य स नृपं गुणशर्मा गृहं ययौ॥३५॥ वीणारम्भावहारं तु चक्रे स दिवसान्बहून्। दृष्टिमप्यादृशीं राज्ञ्याः प्रेक्ष्यापममशङ्कितः॥३६॥ एकस्मिंश्च दिने राज्ञो भुञ्जानस्यान्तिके स्थितः। व्यञ्जनं ददतं सूदमेकं मा मेत्यवारयत्॥३७॥ किमेतदिति पृष्टश्च राज्ञा प्राज्ञो जगाद सः। सविषं व्यञ्जनमिदं मया ज्ञातं न संशयः॥३८॥ सूदेन मम दृष्टे हि व्यञ्जनं ददतामुना। मुहुः भयसकम्पेन दृष्टाशङ्कितदृष्टिना॥३९॥ दृश्यतां पातुमवैतत्कर्मणेज्जिहीमतामिदम्। भोजनव्यञ्जनं यस्य निर्हरिष्याम्यहं विषम्॥४०॥ इत्युक्तस्तं राजा स सूपकारं तमेव तत्। व्यञ्जनं भोजयामास भुक्त्वा तच्च मुमूर्च्छ सः॥४१॥ मन्त्रापास्तविषस्तत्र सतः स गुणशर्मणा। राजा पृष्टो यथातत्त्वमथं वक्ति स्म सूपकृत्॥४२॥ देवाहं गौडपतिना राज्ञा विक्रमशक्तिना। विषं प्रदातुं प्रहितो युष्माकमिह वैरिणा॥४३॥