कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 427, कुल 1079 में से
संदर्भ में पढ़ें१६२ कथासरित्सागरः सोऽभूद्वैदेशिको भूत्वा कुशलः सूदकर्मणि। देवाद्यात्मानमाबध्य प्रविष्टोऽत्र महानसे॥४४॥ राज्ञाद्य दददेवाहे विषं व्यञ्जनमध्यगम्। लक्षितो धीमतानेन प्रभुर्जानात्यतः परम्॥४५॥ इत्युक्तवन्तं तं सूपं निगृह्य गुणशर्मणे। प्रीतो ग्रामसहस्रं स प्राणदाय ददौ नृपः॥४६॥ अथैयुष्यनुबध्नन्त्या राज्ञ्या राजा स यत्नतः। वीणायां गुणशर्माणं शिक्षारम्भमकारयत्॥४७॥ तत शिक्षयतस्तस्य वीणां सा गुणशर्मणः। राज्ञी विलासहासादि चक्रेऽशोकवती सदा॥४८॥ एकदा सा करङ्गुह्यविध्यन्ती विजने मुहुः। उवाच वारयन्तं तं धीरं स्मरशरातुरा॥४९॥ वीणावाद्यापदेशेन त्वं सुन्दर मयाश्रितः। त्वयि गाढोऽनुरागो हि जातो मे तद्भजस्व माम्॥५०॥ एवमुक्तवतीं राज्ञीं गुणशर्मा जगाद ताम्। मैवं वादीर्मम त्वं हि स्वामिदारा न नेदृशम्॥५१॥ अस्मार्दृशः प्रभुद्रोहं कुर्याद्विरम साहसात्। इत्युक्तवान्तां सा राज्ञी गुणशर्म्मानमाह तम्॥५२॥ किमिदं निष्फलं रूपं वैदग्ध्यं च कलासु ते। मामीदृशीं प्रणयिनीं नीरसोपेक्षसे कथम्॥५३॥ तच्छ्रुत्वा गुणशर्मा तां सोपहासमभाषत। सुष्ठूक्तं तस्य रूपस्य वैदग्ध्यस्य च किं फलम्॥५४॥ परदारापहारेण यशःकीर्त्तिमलीमसम्। इहामुत्र च यन्न स्यात्पाताय नरकार्णवे॥५५॥ इत्युक्ते तेन सा राज्ञी सकोपेव तमब्रवीत्। मरणं मे ध्रुवं यावन्मङ्गमभ्युपकृतं त्वया॥५६॥ तदहं मारयित्वा त्वां मरिष्याम्यपमानिता। गुणशर्मा ततोऽवादीत्कामं भवतु नाम तत्॥५७॥ वरं यद्धर्मपालन क्षणमेकं हि जीवितम्। वरं न यदधर्मेण कल्पकोटिशताम्यपि॥५८॥