कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 433, कुल 1079 में से
संदर्भ में पढ़ें१९८ कथासरित्सागर ततस्तयोर्भवितव्यो प्रकोपात्खड्गहस्तयोः । आकुलत्वेन चस्खाल महासेननृपः क्षितौ ॥८९॥ स्खलितेऽस्मिन्प्रहरतश्चक्रेण भुजमच्छिनत् । राज्ञो विक्रमशक्तेः स गुणशर्मा सखड्गकम् ॥९०॥ पुनश्च हृदि हत्वा तं परिघेण न्यपातयत् । तच्चोत्थाय महासेनो राजा दृष्ट्वा तुतोष सः ॥९१॥ किं वच्मि पञ्चमं वारमिदं प्राणा इमे मम । विप्रवीर त्वया दत्ता इति तं चावदन्मुहुः ॥९२॥ ततो विक्रमशक्तेस्तत्तस्य सैन्यं सराष्ट्रकम् । आजक्राम महासेनो हतस्य गुणशर्मणा ॥९३॥ आक्रम्य चान्यान्नृपतीन्सहाये गुणशर्मणि । आगत्योज्जयिनीं तस्यां स राजा सुखितस्तदा ॥९४॥ सा त्वशोकवती राज्ञी सोत्सुका गुणशर्मणः । विरराम न निर्बन्धप्रार्थनातो दिवानिशम् ॥९५॥ स तु नाङ्गीचकारैव तदकार्यं कथञ्चन । देहपातमपीच्छन्ति सन्तो नाविनयं पुनः ॥९६॥ ततोऽशोकवती बुद्ध्वा निश्चयं तस्य वैरतः । एकदा व्याजखेदं सा कृत्वा तस्थौ रुषन्मुखी ॥९७॥ प्रविष्टोऽथ महासेनस्तामालोक्य तथास्थिताम् । पप्रच्छ राजा किमिदं प्रिये केनासि कोपिता ॥९८॥ ब्रूहि तस्य करोम्यद्य धर्मं प्राणैश्च निग्रहम् । इति ब्रुवाणं तं भूपं राज्ञी कृच्छ्रादिवाह सा ॥९९॥ येन मेऽपकृतं तस्य नैव त्वं निग्रहे क्षमः । न स तादृक्तदेतेन मिथ्योद्घाटितेन किम् ॥१००॥ इत्युक्त्वा सानबन्धे सा राज्ञि मिथ्येवमब्रवीत् । आर्यपुत्रातिनिर्बन्धो यदि ते वच्मि तच्छृणु ॥१०१॥ अयं गौडेश्वरात्प्राप्तुं तेन संस्थाप्य संविदम् । गुणशर्मा तव द्रोहं कर्तुमेतच्चिकीर्षति ॥१०२॥ त्वं च रूपनिबन्धाद्धि गौडं कारयितुं नृपम् । विससर्ज स दूतं स्वं गुप्तमाप्तं द्विजाधमः ॥१०३॥