भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 441, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 441

कथासरित्सागर निर्ययौ च ततस्तस्याः प्रसभं नृपसंसदः। अश्वान क्षतमात्रं च योधानामनुधावताम् ॥१४९॥ ततो दत्त्वाञ्चलस्य तदन्तर्धानाञ्जनं दृशोः। अदृश्यः प्रययौ तस्माद्देशात्तत्क्षणमेव सः ॥१५०॥ दक्षिणापथमुद्दिश्य गच्छंश्चाचिन्तयत्पथि। नूनं तयाशोकवत्या मूढोऽसौ प्रेरितो नृपः ॥१५१॥ अहो विषादप्यधिकाः स्त्रियो रक्तविमानिताः। अहो असेव्याः साधूनां राजानोऽतत्त्वदर्शिनः ॥१५२॥ इत्यादि चिन्तयन्प्राप गुणशर्मा कथञ्चन। ग्रामं तत्र वटस्याधो ददर्शैकं द्विजोत्तमम् ॥१५३॥ शिष्यानध्यापयन्तं समुपसृत्याभ्यवादयत्। सोऽपि तं विहितातिथ्यः पप्रच्छ ब्राह्मणः क्षणात् ॥१५४॥ हे ब्रह्मन्कतमां शाखामधीषे कथ्यतामिति। ततः स गुणशर्मा तं ब्राह्मणं प्रत्यवोचत ॥१५५॥ पठामि द्वादश ब्रह्मन् शाखा द्वे सामवेदतः। ऋग्वेदाद्द्वे यजुर्वेदात्सप्त चैकामथर्वतः ॥१५६॥ तच्छ्रुत्वा तर्हि वेत्थस्त्वमित्युक्त्वा ब्राह्मणोऽथ सः। आकृत्या कथितोत्कर्षं प्रहृष्टः पप्रच्छ तं पुनः ॥१५७॥ को देशः कोऽन्वयो ब्रूहि जन्मनामश्रुतंस्तव। किं ते नाम कथं वेत्थस्त्वमधीतं क्व वा वद ॥१५८॥ गुणशर्मणो जन्मवृत्तान्तम् तच्छ्रुत्वा गुणशर्मा तमुवाचोज्जयिनीपुरि। आदित्यशर्मनामासीत्कोऽपि ब्राह्मणपुत्रकः ॥१५९॥ पिता तस्य च बालस्य सतः पञ्चत्वमाययौ। माता तेन समं पत्या विवेश च हुताशनम् ॥१६०॥ ततः स ववृधे तस्यां पुरि मातुसवेश्मनि। सादित्यशर्माधीयानो वेदान्विद्याः कलास्तथा ॥१६१॥ प्राप्तविद्यस्य तस्याथ जपव्रतनिषेविणः। प्रव्राजकेन केनापि सख्यं समुदपद्यत ॥१६२॥ स परिव्राट् समं तेन मित्रेणादित्यशर्मणा। गत्वा पितृवने होमं यक्षिणीसिद्धये व्यधात् ॥१६३॥