भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 457, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 457

आसीत्सूर्यप्रभस्यात्र संग्रामः श्रुतशर्मणा। दामोदरेण च समं प्रभासस्याहवोऽभवत् ॥१९॥ महोत्पातेन सार्कं च सिद्धार्थो युयुधे सदा। प्रहस्तो ब्रह्मगुप्तेन सङ्क्रमेन च बीतभीः ॥२०॥ प्रज्ञाढ्यश्चन्द्रगुप्तेनाप्यक्रमेण प्रियङ्करः। युयुधे सर्वदमनः सहैवातिबलेन च ॥२१॥ धुरन्धरेण युयुधे स कुञ्जरकुमारकः। अन्ये महारथाश्चान्यैरयुध्यन्त पृथक्पृथक् ॥२२॥ तत्र पूर्वं महोत्पातः प्रतिहत्य शरैः शरान्। सिद्धार्थस्य धनुश्छित्त्वा जघानाश्वांससारथीन् ॥२३॥ विरथः सोऽपि सिद्धार्थो धावित्वा तस्य तं रुषा। अयोदण्डेन महता साश्वं रथमचूर्णयत् ॥२४॥ ततस्तं पादचारी स सिद्धार्थं पादचारिणम्। बाहुयुद्धेन धरण्यां महोत्पातम्पातयत् ॥२५॥ यावच्चेच्छति निष्पेष्टुं स तं तावत्स खेचरः। भगेन रक्षितः पित्रा प्रोत्थाय प्रययौ रणात् ॥२६॥ प्रहस्तब्रह्मगुप्तौ चाप्यन्योन्यं विरथीकृतौ। करणैः खड्गयुद्धेन युध्यते स्म पृथग्विधैः ॥२७॥ प्रहस्तश्छासिनिर्मूनचर्माणं करणक्रमात्। युक्त्या तं पातयामास ब्रह्मगुप्तं भुवस्तले ॥२८॥ पतितस्य शिरस्तस्य स यावच्छेत्तुमिच्छति। तावन्निवारितो दूरात्पित्रास्य ब्रह्मणा स्वयम् ॥२९॥ सुता रक्षितुमायाता यूयं न प्रेक्षितुं रणम्। इत्युक्त्वा दानवाः सर्वे देवान्निजघ्नुस्तदा ॥३०॥ तावद्वीतभयश्छिन्नधन्वानं हतसारथिम्। जघान हृदये विद्ध्वा प्रद्युम्नास्त्रेण संङ्क्रमम् ॥३१॥ प्रज्ञाढ्यश्चन्द्रगुप्तं च पदातिं रथवांस्तयात्। पदातिं खड्गयुद्धेन न्यवधीत्कृतमस्तकम् ॥३२॥ ततः पुष्णवशत्रुश्च स्वममात्यं धनञ्जयम्। प्रज्ञाढ्ये योजयामास युद्धं चासीत्तयो क्षमम् ॥३३॥