कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 531 of 1079
Read in context४२४ कथासरित्सागर यदैवाशोकमालायाः शापमोक्षो भविष्यति । तदैव जातिं स्मृत्वाय शापादस्माद् विमोक्ष्यते ॥८३॥ प्राप्य च स्वतनू शापं संस्मरन्निरहङ्कृतिः । अचिरात्त्वां विवाहोढः स्वयुक्तो भविता सुखी ॥८४॥ इत्युक्ता तेन सा साध्वी व्यजिह्ववृत्तिमाश्रये । तं च पानीस मां स्पूसमुञ्ज धापाविह च्युतम् ॥८५॥ दृष्ट मया चाहङ्कारदोषोऽवृष्टसमिद महत् । पुंसामदृष्टे दृष्टे वा श्रेयोऽहङ्कारिणां कुत ॥८६॥ क्षीणो मे स च शापोऽद्येत्युक्त्वा मुक्त्वा च तां तनुम् । हृत्पद्मं स सम्पेदे विद्याधरकुमारकः ॥८७॥ अशोकमालादेहं च नीत्वा विद्याप्रभावतः । अदृश्यमेव निक्षेप गङ्गायामानुषस्यतः ॥८८॥ विद्याप्रभापानीतैष्व तस्तोयैरभितः क्षणात् । अक्षाळयदरुङ्कारवतीवासगृहं स तत् ॥८९॥ नरवाहनदत्तं च नत्वा तं भाविनं प्रभुम् । स्वकार्यसिद्धये प्रायादुत्पत्य स नभस्तलम् ॥९०॥ विस्मितेष्वथ सर्वेषु प्रसङ्गात्तत्र गोमुखः । अनङ्गरतिसम्बद्धामिमामकथयत् कथाम् ॥९१॥ अनङ्गरतिकथा अस्ति शूरपुरं नाम यथार्थं नगरं भुवि । महावराह इत्यासीद्राजा तत्रातिदुर्मदः ॥९२॥ गौर्याराधनतस्तस्य देव्याः पद्मरती सुता । जज्ञेऽनङ्गरतिर्नानि भूपस्यानन्दसन्ततेः ॥९३॥ कालेन यौवनारूढा सा च रूपाभिमानिनी । नेच्छति स्म पतिं कञ्चिद्याचमानेषु राजसु ॥९४॥ यः शूरो रूपवानेकं विज्ञानं वेत्ति शोभनम् । तस्मै मयात्मा दातव्य इत्युवाच तु निश्चयात् ॥९५॥ अथ तत्राययुर्वीराश्चत्वारो दक्षिणापथात् । तन्नृपेप्सव शूरोदन्तास्तवीप्सितगुणान्विताः ॥९६॥