कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 563 of 1079
Read in context५३२ कथासरित्सागर पतित मज्जयन्तीषु दर्शितोत्कलिकासु च। प्राज्ञ पतरणगाधासु न स्त्रीषु च नदीषु च॥२८८॥ व्यसनपु निस्सङ्गा विभवेष्वप्यगर्विता । कार्येष्वकातरा ये च ते धीरास्तैर्जित जगत्॥२८९॥ इत्यालोच्य शुचं त्यक्त्वा मन्त्रिणो वचनेन सः। स्वदारेष्वेव सन्तोष राजा हरिवरो व्यधात्॥२९ ॥ साप्यनङ्गप्रभा तत्र वियोगपुरनामनि। नाट्याचार्यमुखा तावत् कञ्चित्काल स्थिता पुरे॥२९१॥ तावत्तत्रापि सजज्ञे नाट्याचार्यस्य दैवत्। यूना सुदर्शननाम्नेम द्यूतकारेण सङ्गतिः॥२९२॥ सेन द्यूतहताशेषधनोऽनङ्गप्रभाप्रत । कृत सुदर्शनेनात्र नाट्याचार्योऽचिरेण सः॥२९३॥ तद्रोषादिव निःश्रीक त्यक्त्वाऽनङ्गप्रभाञ्च तम्। सा सुदर्शनमेवैत प्रसन्नाऽशिश्रियत् पतिम्॥२९४॥ नष्टदारधन सोऽथ नाट्याचार्योऽप्रतिष्ठयः। वैराग्यात्तपसे बद्धजटो गङ्गातट ययौ॥२९५॥ सा स्वनङ्गप्रभा तेन द्यूतकारेण सङ्गता। सुदर्शनेन तत्रैव तस्थौ नवनवप्रिया॥२९६॥ एकदा च पतिस्तस्यास्तस्करैः स सुदर्शनः। मुषिताशेषसर्वस्व प्रविद्य रजनी कृतः॥२९७॥ सतस्तां द्रविणाभावादुःखितामनुतापिनीम्। दृष्ट्वा सुदर्शनोऽनङ्गप्रभामिदमुवाच सः॥२९८॥ हिरण्यगुप्तनामा यः सुहृन्मेऽस्ति महाधनः। तत्सकाशादृण किञ्चिदेहाद्य मृगयामहे॥२९९॥ इत्युक्त्वा दैवहतधी स गत्वैव तया सह। ऋण हिरण्यगुप्तं त वणिङ्मुख्यमयाचत॥३ ०॥ स धानङ्गप्रभां दृष्ट्वा वणिक साऽपि च स तदा। अन्योन्याभिलाषी तौ बभूवतुरुभावपि॥३ ०१॥ उवाच चैव स वणिक त सुदर्शनमावरात्। प्रातर्दास्ये हिरण्य वामद्यहैव सु मुच्यताम्॥३ ०२॥