भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 573, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 573

स्वनामसञ्ज्ञं स्वकृतं स पश्यंस्तत्पुरं नृपः। सेनानयो पथा यत्र गृहं विजयवर्मणः ॥३४६॥ बुद्ध्वा च नृपमायान्तं तद्दर्शनकुतूहलात्। आरुरोहात्र सानङ्गप्रभा हर्म्यतलं तदा ॥३४७॥ अनंगप्रभामदनमञ्चयोः कथा दृष्ट्वैव सा तं राजानं तथाभूतदृक्षा यथा। पृष्ठाद्राजकरेणुस्थं हस्त्यारोहमभाषत ॥३४८॥ भो हस्त्यारूढ नवाहमारूढा जातु हस्तिनम्। तदारोहय मामत्र वीक्षे तावत् कियत्सुखम् ॥३४९॥ तच्छ्रुत्वाधोरणे तस्मिन् गजाननविलोकिनि। राजा ददर्श तामिन्दोर्दिवः कान्तिमिव च्युताम् ॥३५०॥ पिवंश्च तामतृप्तेन चकोर इव चक्षुषा। नृपस्तत्प्राप्तिबद्धाशो हस्त्यारोहमुवाच सः ॥३५१॥ नीत्वा करेणुं निकटं पूरयास्या मनोरथम्। आरोपयेन्नुववनामेतामत्राविलम्बितम् ॥३५२॥ इति राज्ञोदिते तेन हस्त्यारोहेण ढौकिता। अधस्तात्तस्य हर्म्यस्य तत्क्षणं सा करेणुका ॥३५३॥ दृष्ट्वा तां निकटप्राप्तां राज्ञः सागरवर्मणः। उत्सङ्गे तस्य सानङ्गप्रभारत्मानमपातयत् ॥३५४॥ क्वासी स भर्तृविद्वेषः क्वैषा भर्तुव्युत्पन्नता। हा तस्याः पितृशापेन दर्शितोऽप्रतिविपर्ययः ॥३५५॥ निपातभीतेव च सा कण्ठे तं नृपमग्रहीत्। तत्स्पर्शामृतसिक्ताङ्गः सोऽपि प्राप परां मुदम् ॥३५६॥ युक्त्या समर्पितात्मानं परिचुम्बनलालसाम्। तां स राजा गृहीत्वैव जगामाशु स्वमन्दिरम् ॥३५७॥ तत्र तामुक्तवृत्तान्तां सर्वैश्च शुचराङ्गमाम्। स चकार महादेवीं ज्येष्ठेऽस्यान्तःपुरे नृपः ॥३५८॥ श्रुत्वा राजहृतामेवामत्य क्षत्रमिवाय सः। बहिर्विजयवर्मात्र राजभृत्यानयोधयत् ॥३५९॥ युद्धे च तमस्त्याज शरीरमपराङ्मुखः। न शूरा विषहन्ते हि स्त्रीनिमित्तं पराभवम् ॥३६०॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 573, कुल 1079 में से · BharatKosha