कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 599, कुल 1079 में से
संदर्भ में पढ़ेंतैक्ष्यं कृपाणे यस्याभून्न दण्डे नयशालिनः । धर्मे च सततासक्तिर्न तु स्त्रीमृगयादिषु ॥८७॥ तस्मिश्च राज्ञि तुल्यो रजःसु गुणविभ्रुतिः । मायक्यविचारश्च गोप्तृषु पङ्कुरक्षिणाम् ॥८८॥ तस्य वीरवरो नाम शूरो मालवदेशजः । स्वाकृतिच्छाययो राज्ञो विप्र सेवार्थमेकदा ॥८९॥ यस्य धर्मवती नाम भार्या वीरवती सुता। पुत्र सत्त्ववरश्चेति त्रयः परिकरा गृहे ॥९०॥ सेवापरिकरश्चान्यस्तस्य कट्यां कृपाणिका। पाणौ करवालैकस्मिन्नचर्मान्यस्मिन्सुदर्पणम् ॥९१॥ द्वयमात्र परिकरे वृत्य्यर्थयते स्म सः। प्रत्यहं भूपतेस्तस्माद्दीनारशतपञ्चकम् ॥९२॥ राजा च स ददौ तस्म वृत्तिं तां रक्षितौजसे। पश्यामि तावन्तस्य प्रकर्षमिति चिन्तयन् ॥९३॥ ददौ च तस्य चारान्स पश्चाज्जिज्ञासितुं नृपः। कुर्वन्नियद्भिर्दीनारैः किं ब्रियाद्दूरसाविति ॥९४॥ स च वीरवरस्त्वेषां दीनाराणां दिने दिने। शतं हस्ते स्वभार्याया भोजनादिकृते ददौ ॥९५॥ शतेन वस्त्रमाल्यादि क्रीणाति स्म शतं पुनः। स्नात्वा हरिरुद्रादीनामर्चनार्थमकल्पयत् ॥९६॥ द्विजातिकृपणादिभ्यो ददाव यच्छतद्वयम् । एव स विनियुङ्क्ते स्म नित्यं पञ्चशतीमपि ॥९७॥ तस्थौ च पूर्वमभ्यासे सिंहद्वारेऽस्य भूपतेः । कृत्वाह्निकादि चागत्य तत्रैवासीन्निशां पुनः ॥९८॥ एतां तद्दिनचर्यां च नित्यं चारा न्यवेदयन्। राज्ञे तस्मै ततस्तुष्टः स तांश्चारान् न्यवर्तयत् ॥९९॥ सोऽपि वीरवरस्तस्य राज्ञस्तस्थौ दिवामिशम्। स्नानादिसमयं मुक्त्वा सिंहद्वारे धृतायुधः ॥१ ॥ अथामं च वीरवर जेतुमिच्छन्प्रियाययौ। सूरप्रतापासहनो गर्जितोग्रो बलागमः ॥१ १॥