कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 601, कुल 1079 में से
संदर्भ में पढ़ें५५४ कथासरित्सागर सदा च वर्षति घने घोरा धाराधरावली । न स वीरवरः सिंहद्वारास्तम्भ इवाचलत् ॥१०२॥ राजा विक्रमतुङ्गश्च प्रासादाद्वीक्ष्य तं सदा । आरुरोह स जिज्ञासुः प्रासादं तं पुनर्निशि ॥१०३॥ सिंहद्वारे स्थितः कोऽत्रेत्युपरिष्टाज्जगाद सः । सरक्षाङ्गः स्थितोऽत्रेति सोऽपि वीरवरोऽभ्यधात् ॥१०४॥ अहो अयं महासत्त्वः सुमहत्पदमर्हति । सिंहद्वारं न यो मुञ्चत्यम्बुदे वर्षतीदृशे ॥१०५॥ इति यावच्च स श्रुत्वा विचिन्तयति भूमिभृत् । तावद्दूरात् सकरुणं रुदतीमशृणोत् स्त्रियम् ॥१०६॥ दुःखितो मे न राष्ट्रेऽस्ति तदेषा का नु रोदिति । इत्यालोच्याब्रवीद्राजा स तं वीरवरं तदा ॥१०७॥ भो वीरवर कापि स्त्री दूरे रोदित्यसौ शृणु । कपा किं दुःखमस्याश्चेत्यत्र गत्वा निरूपय ॥१०८॥ तच्छ्रुत्वा स तथेत्युक्त्वा गन्तुं प्रववृते द्रुतः । धुन्वन्करतले वीरवरो बद्धासिधेनुकः१ ॥१०९॥ दृष्ट्वा तं प्रस्थितं मध्ये ज्वलद्विद्युति सादृशे । धारानिपातसंरुद्धरोदोरन्ध्रे सकौतुकः ॥११०॥ सकृपाञ्चावतीर्यैव प्रासादात्तस्य पृष्ठतः । अलक्षितः खड्गपाणिः प्रतस्थे सोऽपि भूमिपः ॥१११॥ स चानुससर्प यदितः पृष्ठान्वागतभूपतिः२ । गत्वा बहिः पुरादेकं प्राप वीरवरः सरः ॥११२॥ हा नाथ हा कृपालो हा शूर त्यक्ता त्वया कथम् । वत्स्यामीति च तन्मध्ये रुदतीं स्त्रीं ददर्श ताम् ॥११३॥ का त्वं शोचसि कं नाथमिति पृष्टा च तेन सा । उवाच पुत्र मामेतां विद्धि वीरवर क्षितिम् ॥११४॥ तस्या विक्रमतुङ्गो मे राजा मान्योऽथ धार्मिकः । मृत्युश्च भविता तस्य तृतीयेऽहनि निश्चितम् ॥११५॥ एतादृशश्च भूयोऽपि पतिः स्यात्पुत्र न ध्रुवं । तेनैतमनुशोचामि स्वात्मानं च सुदुःखिता ॥११६॥ १ कटिबद्धक्षुरिकः । २ पृष्ठं अभ्यागतः पश्चादागतः भूपतिर्यस्येति समासः ।