BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 643 of 1079

Read in context
Page 643

५९६ कथासरित्सागर

तपस्य स्वप्नदृष्टायास्तस्याः पूर्वोक्तयोर्द्वयोः। विभोर्भोगाधियं तत्र वव्रे सास्मै ददौ च ताम् ॥२०८॥ अथागत्य यशोवर्मा गृहं देवीप्रसादतः । अचिन्तितोपगामिन्या तस्थौ भोगधिया सुखम् ॥२०९॥ तदेव भोगसम्पन्ना धीरप्यल्पतरा वरम्। न पुनर्भोगरहिता सुविस्तीर्णाप्यपार्थका ॥२१०॥ तत्किं समरखारस्य राज्ञः कार्पण्यसम्भवा। तप्यध्वे दानभोगाभ्यां वीक्ष्य स्वां श्रियं न किम् ॥२११॥ अतस्तं प्रति युष्माकमवस्कन्दो न भद्रकः । यात्राछन्नश्च नास्त्येव नापि वा दृश्यते जयः ॥२१२॥ इत्युक्ता अपि ते तेन पृच्छ ज्योतिर्विदा नृपाः । ययुस्समरखारुं तं नृपं प्रत्यसहिष्णवः ॥२१३॥ सीमाप्राप्तांश्च तान् बुद्ध्वा निर्यास्यन्समराय सः। राजा समरखारुः प्राक्स्नात्वा हरमपूजयत् ॥२१४॥ अष्टषष्ट्युत्तमस्थाननियतर्नामभिः शुभैः । यथावत्त च तुष्टाव पापघ्नैः सर्वकामदैः ॥२१५॥ राजन्युध्यस्व निश्शङ्कु शत्रूञ्जेष्यसि सङ्करे । इत्युद्गतां च गगनात्सोऽथ शुश्राव भारतीम् ॥२१६॥ ततः प्रहृष्टः सन्नह्य तेषां निजबलान्वितः । राजा समरखालोऽग्रे युद्धाय निरगाद्विषाम् ॥२१७॥ त्रिंशद् गजसहस्राणि त्रीणि लक्षाणि वाजिनाम् । कोटिः पादातटानां च तस्यासीद्वैरिणो बले ॥२१८॥ स्वबले च पदातीनां तस्य लक्षाणि विंशतिः । दश दन्तिसहस्राणि हयानां लक्षमप्यभूत् ॥२१९॥ प्रवृत्तं तु महायुद्धं तयोरुभयसेनयोः । यथार्थनाम्नि वीराख्ये प्रतीहारश्रियामयिनि ॥२२०॥ स्वयं समरवालोऽसौ राजा वहन्मराङ्गजम् ॥ महावगाहो भगवा महानद्यमिवाविशत् ॥२२१॥ मग्नः क्षात्र्यर्मन्मार्गेऽपि परसैन्यं महत्क्षणात् । यघाश्वगजपत्तीनां हयानां राजन्नोऽभवत् ॥२२२॥