भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 679, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 679

६३२ कथासरित्सागर तावच्च तेन मृगयान्निवृत्ताः शबराः पथा। आगता ददृशुः सुप्तं तं राजानं सुलक्षणम् ॥२१९॥ तं च देव्युपहाराय बद्ध्वा निन्युस्तदैव तम्। स्वस्य मुक्ताफलाख्यस्य पार्श्वं शबरभूभृतः ॥२२० ॥ सोऽप्येनं शबराधीशः प्रशस्तं वीक्ष्य नीतवान्। स तं विन्ध्यवासिन्याः पशूकर्तुं नराधिपम् ॥२२१॥ दृष्ट्वैव च स देवीं तां प्रणमंस्तदनुग्रहात्। राजा स्तवप्रभावाच्च बभूव क्षतबंधनः ॥२२२॥ तदालोक्याद्भुतं मत्वा तस्य तं देव्यनुग्रहम्। मुमोच तं स राजानं शबराधिपतिर्वधात् ॥२२३॥ एवं कनकवर्षस्य तृतीयादपमृत्युतः। अतिक्रान्तस्य तस्याभूत्पूर्णं तच्छापवत्सरम् ॥२२४॥ तावच्च तस्य सा नागी राज्ञो मदनसुन्दरीम्। देवीं सपुत्रामादाय तत्रैवागात् पितृष्वसा ॥२२५॥ जगाद तं च भो राजन् ज्ञातकोपारुणा भयात्। एतौ ते रक्षितौ युक्त्या नीत्वा स्वभवनं मया ॥२२६॥ तस्मात्कनकवर्ष स्वौ गृहाणैतौ प्रियासुतौ। भुङ्क्ष्वेदं पृथिवीराज्यं क्षीणशापोऽधुना ह्यसि ॥२२७॥ इत्युक्त्वा प्रणतं सा तं नृपं नागी तिरोदधे। नृपोऽपि स्वप्नमिव तन्मेने भार्यासुतागमम् ॥२२८॥ ततोऽस्य राज्ञो गात्राच्च चिरादिष्टसमागमः। अगमद्विरहक्लेशो हृष्टबाष्पाम्बुभिः सह ॥२२९॥ ततः कनकवर्षं तं बुद्ध्वा पृथ्वीपतिं प्रभुम्। मुक्ताफलोऽप्यथ प्रणम्य शबरेन्द्रः स पादयोः ॥२३०॥ क्षमयित्वा च पल्लीं स्वां प्रपद्य च निजोचितैः। तस्तैः समुचितैस्तारैः तमुपचारैरपूजयत् ॥२३१॥ सोऽथ तत्र स्थितो राजा दूतैरानाययन्नृपम्। श्वशुरं देवशक्तिं तं स्वसुतं च निजात्सुतात् ॥२३२॥ अथान्वितनरेशः स मदनसुन्दरीं तां प्रियां सुतं च राज्येऽभिषिच्य हिरण्यगर्भाभिधम्। विधाय पुत्रस्तं श्वशुरं च समायादितः शशास स तदन्वितः कनकवर्षपृथ्वीपतिः ॥२३३॥