भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 699, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 699

सत्कारणं च पृच्छन्तं तमयमवदज्जनः। इह स्थितो महीपालो नाम ब्राह्मणपुत्रकः ॥१२३॥ अटव्यां सार्थवाहेन प्राप्तः सार्थभरेण सः। तस्मात् सुलक्षणो दृष्ट्वा याचित्वा भगिनीसखः ॥१२४॥ अनन्तस्वामिना यत्नादिहानीतः स मन्त्रिणा। पुत्रीकृतश्चापुत्रेण स तेन प्रियतां गतः ॥१२५॥ तारावर्मनृपस्येह राष्ट्रस्यास्य च सद्गुणः। सोऽद्य कृष्णाहिना दष्टस्तेन हाहारवः पुरे ॥१२६॥ एतच्छ्रुत्वा स एष स्यान्मत्पुत्र इति चिन्तयन्। आययौ त्वरितश्चन्द्रस्वामी मन्त्रिगृहं स तत् ॥१२७॥ तत्र सर्वैर्वतं दृष्ट्वा परिज्ञाय च तं सुतम्। मन्वति स्म स हस्तस्थममृतागदोत्पलम् ॥१२८॥ अढौकयच्च नासायां महीपालस्य तस्य सत्। नीलोत्पलं सद्यैवाभूत्सद्गन्धेन स निर्विषः ॥१२९॥ उत्तस्थौ च महीपालो निद्रायुक्त इवास्त सः। पुरे चात्रोत्सवं चक्रे जनः सर्वः सराजकः ॥१३०॥ चन्द्रस्वामी च स तदा देवांशः कोऽप्यसाविति। अनन्तस्वामिना पौरैः राज्ञा चाप्यतिपूज्यत ॥१३१॥ तस्थौ च तत्रैव सुखं मन्त्रिवेश्मनि सोऽर्चितः। पश्यन्पुत्रं महीपालं सुतां चन्द्रवतीं च ताम् ॥१३२॥ परिज्ञायापि चान्योन्यं तूष्णीं तस्थुस्त्रयोऽपि ते। कुर्वन्त्यकालेऽभिव्यक्तिं न कार्यापेक्षिणो वृथा ॥१३३॥ अथ तस्मै महीपालायान्तः सन्तोषतो गुणैः। राजा बन्धुमतीं नाम तारावर्मा ददौ सुताम् ॥१३४॥ प्रदत्तनिजराज्यार्धं तस्मिन्नेव व्यधात्तथा। सुखी राज्यभरं कृत्स्नं स नृपोऽन्यमपुत्रकः ॥१३५॥ महीपालोऽपि स प्राप्तराज्यः प्रख्याप्य तं निजम्। पितरं स्वानुजां स्थाने वरत्वा तस्थौ यथासुखम् ॥१३६॥ एकदा च पिता चन्द्रस्वामी स्वैरमभाषत। एहि स्वदेशं गच्छावो मातुरानमनाय ते ॥१३७॥