भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 725, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 725

१७८ कथासरित्सागर ततस्तौ फलमूलाशी वने तत्र निशागमे। श्रान्तौ संविशतः स्मोभौ दम्पती कुशसंस्तरे ॥३१५॥ दमयन्ती शनैर्निद्रामश्वसिता जगाम सा। नलो गन्तुमनास्त्वाशीदनिद्रः कलिमोहितः ॥३१६॥ उत्थाय चैकवस्त्रां तां दमयन्तीं विमुच्य सः। छिन्नं सदुत्तरीयार्धं प्रावृत्य च ततो ययौ ॥३१७॥ दमयन्ती च रात्र्यन्ते प्रबुद्धा तं पतिं वने। अपश्यन्ती गतं त्यक्त्वा विरुरोद विचिन्त्य सा ॥३१८॥ हार्यपुत्र महासत्त्व रिपावपि कृपापर। हा मद्वत्सल केनासि मयि निष्करणीकृतः ॥३१९॥ एकाकी च कथं पद्भ्यामटवीषु प्रयास्यसि। कस्ते श्रमापनोदाय परिचर्यां करिष्यति ॥३२०॥ मौलिमालापरागेण रञ्जितौ यौ महीभुजाम्। तौ ते पथि कथं पादौ धूलिः कलुषयिष्यति ॥३२१॥ हरिचन्दनचूर्णेनाप्यक्षिप्तं सहते न यत्। अङ्गं सहिष्यते तत्ते मध्याह्नाकतिपं कथम् ॥३२२॥ किं मे बालेन पुत्रेण किं दुहित्रा किमात्मना। तवैकस्य शिवं देवाः कुर्वतां यद्यहं सती ॥३२३॥ इत्येकानुशोचन्ती दमयन्ती नलं तदा। सत्पूर्वदर्शितात्तेनैव प्रतस्थे सा तत पथा ॥३२४॥ क्वचिच्छक्तातिचक्राम गवीधैलवनाटवी। नातिचक्राम भक्तिं तु सा भर्तरि कथञ्चन ॥३२५॥ सतीतेजश्च मार्गे तामरक्षन्नेन लुब्धकः। भस्मीकृतोऽहेस्त्रातायां तस्यां गतमनो बलात् ॥३२६॥ ततो दैवाद्वणिक्सार्थेनान्तरा मिलितेन सा। सह गत्वा पुरं प्राप सुबाहुनाख्यस्य भूपते ॥३२७॥ तत्र सा राजसुतया दूराद्दृष्ट्वैव हर्म्यतः। सौन्दर्यप्रीतमानाय्य स्वमात्रे प्राभृतीकृता ॥३२८॥ तस्या पार्श्वे महादेव्याः सा तस्थौ च तदावृता। त्यक्त्वा गतो मां भर्तेति पृष्टा चैतावदब्रवीत् ॥३२९॥