भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 735, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 735

१८८ कथासरित्सागर प्राप्तं तं तत्र बुद्ध्वा सा श्रुताश्वजर्यरथस्वना ॥ दमयन्ती जहर्षान्तः सम्भावितनलागमा ॥ ३९० ॥ विससर्जाथ सा तन्मन्वेष्टुं चेटिकां निजाम् । सा चान्विष्यागता चेटी तामुवाच प्रियोत्सुकाम् ॥ ३९१ ॥ देवि गत्वा मयान्विष्टमेष यः कोशलेश्वरः । स्वयंवरप्रवादं तं मिथ्या श्रुत्वा किलागतः ॥ ३९२ ॥ आनीतो रथवाहेन सूदेन ह्रस्वबाहुना । एकेनैव दिनेनाश्व रथविज्ञानशालिना ॥ ३९३ ॥ स च तत्सूपशालायां गत्वा सूदो मयेक्षितः । कृप्णवर्णो निरुपमश्च प्रभावः कोऽपि तस्य तु ॥ ३९४ ॥ विक्षिप्तमेव यत्तस्य पानीयं परपूरितम् । काष्ठान्यनर्पिताग्नीनि स्वयं प्रज्वलितानि च ॥ ३९५ ॥ क्षणाच्च भोजनैस्तैस्तन्निष्पन्नं दिव्यमेव च । एतद्बुद्ध्वा महाश्चर्यं ततस्त्वहमिहागता ॥ ३९६ ॥ एतच्चेटीमुखाच्छ्रुत्वा दमयन्ती व्यचिन्तयत् । वश्याग्निवरुणः सूदो रथविद्यारहस्यवित् ॥ ३९७ ॥ आर्यपुत्रो भवेत्येष गतो वैरुप्यमन्यथा । जाने मद्धिप्रयोगात्तं जिज्ञासुरुह रूप्यमूमू ॥ ३९८ ॥ इति सङ्कल्प्य युक्त्वा स्त्रीं राहू चेट्या तयैव सा । तस्यान्तिकं दर्शयितुं प्राहिणोद्दारकावुभौ ॥ ३९९ ॥ स तौ निजशिशू बुद्ध्वा कृत्वा धाङ्क तरुश्चिरम् । गलद्वाराप्रवाहेण तूष्णीमरुददक्षुणा ॥ ४०० ॥ ईदृशावेव मे बालो मातामहगृहे स्थितौ । जातं मे तत्स्मृतैर्वृत्तभित्युवाच स चेटिकाम् ॥ ४०१ ॥ सा धिच्या सहो गत्वा चेटी सर्वं शशंस तत् । दमयन्त्यै ततः सापि जातास्था सुतरामभूत् ॥ ४०२ ॥ अपरेद्युस्ततः सा प्रात स्वचेटीमादिदेश सा । गत्वा तमृतुपर्णस्य सूतं मद्वचनाद्वद ॥ ४०३ ॥ श्रुतं मया यदुद्भ्रान्तो सूदो नान्यतोऽस्ति सूपकृत् । तन्ममार्थ स्वयागत्य व्यञ्जनं साध्यतामिति ॥ ४०४ ॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 735, कुल 1079 में से · BharatKosha