भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 737, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 737

कथासरित्सागर तथेति स तदा गत्वा नलशङ्कया तयार्थितः । ऋतुपर्णमनुज्ञाप्य दमयन्तीमुपाययौ ॥४०५॥ सत्यं ब्रूहि नलो राजा यदि त्वं सूदरूपभृत् । चिन्ताब्धिमग्नां पारं मां प्रापयाश्वेत्युवाच सा ॥४०६॥ तच्छ्रुत्वा स नलः स्नेहहर्षदुःखप्रपाकुलः । अवाङ्मुखः प्राप्तकालं सामुवाचाथगद्गदम् ॥४०७॥ स एवास्मि नलः सत्यं पापः कुलिशकर्कशः । त्वां संतापयता येन व्यामोहादनलायितम् ॥४०८॥ इत्युक्तवान्स पृष्टोऽभूद्दमयन्त्या तया नलः । यद्येवं तद्वैरूप्यत्वं कथं प्राप्तो भवानिति ॥४०९॥ ततः स तस्यै स्वोदन्तं नलः कृत्स्नमवर्णयत् । कार्कोटकस्यादारभ्य कलिंनिर्गमनावधिम् ॥४१०॥ तदैव चाग्निशौचं तद्दत्तं कार्कोटकेन सः । प्रावृत्य वस्त्रयुगलं रूपं स्वं प्रत्यपद्यत ॥४११॥ दृष्ट्वा नलं पुनरवाप्तनिजाभिरामरूपं तमाशु विकसद्वदनारविन्दा । मत्राश्रुभिः शमितदुःखदवानलेव हर्षं कमप्यनुपमं दमयन्त्यवाप ॥४१२॥ बुद्धा च तत्परिजनात्प्रमदप्रवृत्तावागत्य तत्र सहसा स विदर्भराजः । भीमो नलं समभिनन्द्य कृतानुम्पूजं महोत्सवमयं स्वपुरं चकार ॥४१३॥ हृष्टता हृदि भीमभूपुजा कृतसत्कृत्युपचारसत्क्रियः । ऋतुपर्णनृपोऽपि तं नलं प्रतिपूज्याथ जगाम कोशलान् ॥४१४॥ अथ निषधनरेश्वरो निजं कलिघोरात्म्यविजृम्भितं नलः । श्वशुराय स तत्र वर्णयन्नवसत् प्राप्तसमासक्तं सुखम् ॥४१५॥ गत्वाल्पैरेव दिनैस्ततः स निषधान्सैन्यैः सह स्वाशुरै- रद्यामानजितं विधाय विनतं तं पुष्कराख्यं पुनः । धर्मात्मा धृतसंविभागमगुजं देहाद् गतद्वापरं राज्यं स्वं दमयन्त्यवाप्तिसुखितो भेजे यथावन्नलः ॥४१६॥ इति स व्याख्याय कथां नगरे तारापुरे द्विजः सुमनाः । राजसुतां बन्धुमतीं प्रोषितपतिकांमुवाच तां भूयः ॥४१७॥ एवं भुवि महान्तो विपद्य दुःखं भजन्ति कल्याणम् । अनुभूयास्तमनं किल दिनकृत्प्रमुखा व्रजन्त्युदयम् ॥४१८॥