भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 739, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 739

५९९ कथासरित्सागर तस्मात्त्वमपि तमाप्स्यसि पतिमनेधे प्रोषितागत मचिरात् । कुरु धृतिमरति परिहर विहर च पतिकामनातामे ॥४१९॥ इति त द्विजमुखतमुक्तवाक्य बहुनामभ्यर्च्य धनेन सवॄगुभ सा । अवलम्ब्य धृति प्रतीक्षमाणा दयित व धुमती स्वमन्न तस्थौ ॥४२०॥ अल्पैरेव च तस्या दिनै स पतिरामयो महीपालः । देशान्तरे स्थितां ता जननीमादाय पितृसहित ॥४२१॥ आगत्य द्यामृतांशु पार्वण इव वारिराशिजलस्थलमीम् । जननमहोत्सबदायी बन्धुमतीं नन्दयामास ॥४२२॥ अथ तत्र तया सहितस्तत्पित्रा पूवदत्तराज्यधुरः । स महीपालो बुभुजे राजा सञ्चीप्सितान् भोगान् ॥४२३॥ इत्यारममन्त्रिणरुभूतिमुखात्निशम्य चित्रां कथामनुपमामनुरागरम्याम् । रामासक्त स नरवाहनदत्तदेवो वत्सेश्वरस्य तनयो भृशमभ्यतुष्यत् ॥४२४॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलङ्कारवतीसम्बके षष्ठस्तरङ्गः । समाप्तश्चायमलङ्कारवतीसम्बको नवमः ।