कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 743, कुल 1079 में से
संदर्भ में पढ़ें६१६ कथासरित्सागर भारवाहककथा नाम्ना वसुधरो देव दरिद्रोऽस्तीह भारिकः। अकस्माच्च ददर्शायन्निषण्णश्च स दृष्टवान् ॥७॥ कौतुकाच्च गृहं नीत्वा यथेष्टं पानभोजनम्। दत्त्वा स क्षीवतां नीत्वा मया पृष्टोऽब्रवीदिदम् ॥८॥ लब्धं राजकुलद्वारात् सरत्नं कटकं मया। उत्पाद्य रत्नमेकं च ततो विक्रीतवानहम् ॥९॥ तच्च दीनारलक्षण मूल्येन वणिजो मया। दत्तं हिरण्यगुप्तस्य तेनाद्याहं सुखं स्थितः ॥१०॥ इत्युक्त्वा दर्शितं तेन देवनामाङ्कितं मम। कटकं यत्ततो देव विज्ञाप्तोऽद्य मया प्रभुः ॥११॥ एतच्छ्रुत्वा स वत्सेशस्तत्रानाययति स्म तौ। भारिकं तं सबलयं सरत्नं वणिजं च तम् ॥१२॥ हन्त स्मृतं प्रकोष्ठान्मे भ्रष्टमेतत्पुरभ्रमे। इति तत्कटकं दृष्ट्वा स राजाभिदधे स्वयम् ॥१३॥ निघृष्टं राजनामाङ्कं लब्ध्वा किं कटकं त्वया। इति पृष्टोऽथ सम्यक् स राजाग्रे भारिकोऽभ्यधात् ॥१४॥ भारजीवी कुतो वेद्मि राजनामाक्षराण्यहम्। दारिद्र्यमुद्गवेनेदं सम्भ्रमात् स्वीकृतं मया ॥१५॥ इत्युक्तं तेन रत्नार्थमाक्षिप्तः सोऽब्रवीद् वणिक्। प्रसह्य१ मूल्येन मया गृहीतं रत्नमापणे ॥१६॥ न चास्य राजाभिज्ञानमस्ति तन्मयमुच्यत३। मूल्यात् पञ्चसहस्री तु नीतानेन परं स्थितम् ॥१७॥ एतद्धिरण्यगुप्तस्य वचो यौगन्धरायणः। श्रुत्वा तत्र स्थितोऽवादीन्नात्र दोषोऽस्ति कस्यचित् ॥१८॥ दरिद्रस्यालिपिज्ञस्य भव्यतां भारिकस्य विभो। दारिद्र्यात् क्रियते चौर्यं सर्व्वं केनोज्झितं पुनः ॥१९॥ १ 'मूल्येना प्रसह्य मया' —इति पुस्तकान्तरपाठः । २ 'न चास्ति' इति पुस्तकान्तरपाठः । ३ 'तदयमुच्यते' —इति पुस्तकान्तरपाठः ।