कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 749, कुल 1079 में से
संदर्भ में पढ़ें७२ कथासरित्सागर तदेव चाक्षतीभूय स जगाम यथागतम्। पूर्ववस्थां च स प्राप क्षुमदत्तो विषादवान् ॥४७॥ तदेव पानदोषानिप्रमादाहृतबुद्धयः। अभव्या प्राप्तमप्यर्थं नैव जानन्ति रक्षितुम् ॥४८॥ इति मद्रघटाख्यानहास श्रुत्वा वसन्तकात्। उत्थाय चक्रे वत्सेशः स्नानाहारादिकाः क्रियाः ॥४९॥ नरवाहनदत्तोऽपि स्नात्वा भुक्त्वान्तिके पितुः। दिनान्ते सखिभिः साकं जगाम भवनं निजम् ॥५०॥ तत्र रात्रावनिद्रं स शयनीयगतं सुहृत्। शृण्वत्सु सचिवेष्वेतेष्वबोचन् मरुभूतिकः ॥५१॥ दासीसङ्गच्छया देव ज्ञान मान्तःपुरं त्वया। आहूत सापि नाहूता तेन निद्राद्य नास्ति ते ॥५२॥ तत्किंमद्यापि वेश्यासु जानन्नप्यनुरज्यसे। नह्यासां चास्ति सद्भावस्तथा चैतां कथां शृणु ॥५३॥ मालतीकथा अस्तीह चित्रकूटारख्यमग्रिमन्नगरं महत्। तत्राभद्रत्नवर्माख्या महाधनपतिर्वणिक् ॥५४॥ ईश्वराराधनादेकस्तस्य सूनुरजायत। अन्तश्छेदेवरवर्माणं नाम्ना चक्रे स तं सुतम् ॥५५॥ अधीतविद्यमासन्नयौवनं वीक्ष्य तं च तम्। एकपुत्रो वणिङ्मुख्यो रत्नवर्मा व्यचिन्तयत् ॥५६॥ रूपिणी कुसृतिः सृष्टा धनप्राणापहारिणी। आद्याना यौवनान्धानां वेश्या नामेह वेधसा ॥५७॥ तदपय्यामि दृष्ट्याय कस्याश्चिद्वमुमारभम्। यन्त्राध्याजापणिगाष यत ताभिर्न गम्यत ॥५८॥ १ मासाप्ररुकवचितायवः। २ पुराकाले वेश्याभ्यासमितार्यं वणिग्पुत्रा कुटुम्बिभिः शिष्यन्ते स्म। तद्यथा वन्ते— वैश्याङ्गे वणिदवित्रताश्च वाराङ्गुना राजसमाश्रयज्ञाः। अनेकशस्त्राणि विनोदितानि चातुर्यमूलानि भवन्ति वञ्च ॥