भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 75, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 75

५४ कथासरित्सागर मा वधीस्त्वं महासत्त्व ! स्त्रियं मां कृपणामिमाम् । इदानीं शरणं त्वं मे मन्त्रपाठादि संहर ॥७५॥ रक्ष मां वेद्म्यहं सर्वमीप्सितं साधयामि ते । अनुरागपरा यत्र तत्र त्वां प्रापयाम्यहम् ॥७६॥ इति सप्रत्ययं प्रोक्तस्तया धीरस्तथेति सः । चक्रे निश्चयदत्तोऽत्र मन्त्रपाठादिसंहृतिम् ॥७७॥ ततः स तस्या यक्षिण्याः स्कन्धमारुह्य तद्गिरा । नीयमानस्तया व्योम्ना प्रतस्थे तां प्रियां प्रति ॥७८॥ प्रभातायां च रजनौ प्राप्यैकं गिरिकाननम् । मत्वा निश्चयवन्तं तं गुह्यकी सा व्यजिज्ञपत् ॥७९॥ सूर्योदयेऽधुना गन्तुं शक्तिर्नास्ति ममोपरि । तदस्मिन् कानने कान्ते गमयेदं दिनं प्रभो ॥८०॥ फलानि भुङ्क्ष्व स्वादूनि निर्झराम्बु शुभं पिब । अहं यामि निजं स्थानमप्यामि च निशागमे ॥८१॥ नेष्यामि च तदैव त्वाममरागपरान्तिकम् । मौलिमालां हिमगिरेर्नगरीं पुष्करावतीम् ॥८२॥ इत्युक्त्वा तदनुज्ञाता स्कन्धात्तत्रावतार्य तम् । यक्षिणी पुनरागास्तु सत्यसन्धा जगाम सा ॥८३॥ ततो निश्चयवत्तोऽस्यां गतायामक्षतात सः । अगाधमन्तं सविषं स्वच्छशीतं बहिः सरः ॥८४॥ रागिन् स्त्रीचित्तमतावुगिरयर्कैण निदर्शनम् । प्रसारितकरजब प्रकटीकृत्य दर्शितम् ॥८५॥ स तद् विपाक्त गन्धेन बुद्ध्वा मानुपकृन्त्यतः । त्यक्त्वान्भोऽध्र्थी तृषातः सन्विक्षय तत्राश्रयद्व् गिरेः ॥८६॥ भ्रमधूतभ्रूमायं पद्मरागमणी इव । स्फुरन्तौ द्राबपश्यञ्च मुखं तां निश्चवान् च ॥८७॥ अपास्तमूसिबन्धास्य जीवतो मर्कटस्य सः । गिरो वदन्तं ते पास्य पद्मरागाविवादिनी ॥८८॥ ततो विस्मयते यावत्किमेतदिति चिन्तयन् । तावन्मनुष्यवाचाभो मकटस्तमभाषत ॥८९॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 75, कुल 1079 में से · BharatKosha