भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 753, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 753

७४ कथासरित्सागर गच्छन्क्रमात्पथि प्राप स काञ्चनपुरानिभम्। नगरं तत्र चासन्नबाह्योद्याने समावसत् ॥७३॥ स्नातभुक्तानुलिप्ताङ्गश्च प्रविश्य नगरेऽत्र स । युवा प्रेक्षणकं द्रष्टुमेकं देवकुलं ययौ ॥७४॥ तत्रापश्यच्च नृत्यन्तीं सुन्दरीं नाम लासिकीम्। तारुण्यवातोच्छलितां रूपाब्धेर्लहरीमिव ॥७५॥ दृष्ट्वैव तां तदा सोऽभूत्तदेकगतमानसः। क्वक्व कुट्टनीशिक्षा दूरे तस्यामबध्यत ॥७६॥ वयस्यं प्रेष्य नृत्तान्ते प्रार्थयामास तां च सः। धयास्मीति वदन्ती च प्रहृष्टा साप्यन्वमन्यत ॥७७॥ स्थापयित्वा निवासे स्वे निपुणान् भाण्डरक्षिणः। सस्या ईश्वरवर्मासौ सुन्दर्या वसतिं ययौ ॥७८॥ तस्मिन् मकरदंष्ट्राख्या तन्माता तमुपागतम्। अमानयद् गुहाचारैस्तैस्तैस्तत्समयोचितैः ॥७९॥ निशागमे वासगृहं स्फुरद्रत्नवितानकम्। न्यस्तपर्यङ्कचयनं प्रावेश्यत तया च सः॥८ ०॥ तत्रारमत सुन्दर्या तयानुमतया सह। विचित्रकरणे नृत्ते सुरते च विदग्धया ॥८१॥ गाढर्नाक्षतरागो तां पार्श्वादिनपगामिनीम्। दृष्ट्वा द्वितीयेऽह्नि ततो निर्गन्तुं नाशशञ्च सः ॥८२॥ ददौ च हेमरत्नाविलक्षाणां पञ्चविंशतिम्। तस्यै दिनद्वये तस्मिन्सुन्दर्यै स वणिक्सुतः॥८३॥ प्राप्तं मया धनं भूरि नाहं प्राप्ता भवादृशम्। स एष जन्मन्या प्राप्तः किं धनेन करोम्यहम् ॥८४॥ इत्यसत्यानुबन्धेन सुन्दरीं तदमुञ्चतीम्। माता मकरदंष्ट्रैवमेकान्त्यैव साह ताम् ॥८५॥ इदानीमस्मदीय यत्तत्सर्वं स्वकं धनम्। तन्मध्ये स्थापयित्वा तद्गृह्यतां पुत्रि का क्षतिः ॥८६॥ इत्युक्ता सुन्दरी मात्रा शुद्धादिव तदग्रहीत्। मेने श्वश्वरवर्मा तां मूढः सत्यानुरागिणीम् ॥८७॥