कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 789, कुल 1079 में से
संदर्भ में पढ़ें४४२ कथासरित्सागर तस्य हेमप्रभादेव्यां जातां गौरीवरोद्भवाम्। मां शक्तियशसं नाम जानीहि तनयामिमाम् ॥११॥ पितुः प्राणप्रिया साहं पञ्चभ्रातृकनीयसी। अतोषयं तवादेशाद् व्रतं स्तोत्रैश्च पार्वतीम् ॥१२॥ तुष्टा सा सकला विद्या दत्त्वा मामेवमादिशत्। पितुर्वंशगुणैः पुत्रि भावि विद्याबलं तव ॥१३॥ नरवाहनदत्तश्च भर्त्ता तव भविष्यति। वत्सराजसुतो भाविचक्रवर्ती द्युचारिणाम् ॥१४॥ इत्युक्त्वा शर्वपत्नी मे तिरोऽभूत्तत्प्रसादतः। सद्योविद्याबला साहं सम्प्राप्ता यौवनं क्रमात् ॥१५॥ अद्यादिशच्च सा रात्रौ देवी मां दत्तदर्शना। प्रातः पुत्रि त्वया गत्वा द्रष्टव्यः स निजः पतिः ॥१६॥ आगन्तव्यमिहैवाद्य मासेन हि पिता तव। चित्तस्थितैस्तत्सङ्कल्पो विवाहं संविधास्यति ॥१७॥ इत्यादिश्य तिरोऽभूत् सा देवी याता च यामिनी। ततोऽहमार्यपुत्रैषा त्वमिह द्रष्टुमागता ॥१८॥ तत्सम्प्रति व्रजामीति गदित्वा ससखीजना। उत्पत्य च शक्तियशाः सा जगाम पुरं पितुः ॥१९॥ नरवाहनदत्तश्च तद्विवाहोत्सुकस्ततः। दिवसाभ्यन्तरं खिन्नः पश्यन् मासं युगॊपमम् ॥२०॥ तत्र दृष्ट्वा विमनसं सोऽथ तं गोमुखोऽब्रवीत्। शृणु देव कथामेकां तवाख्यामि विनोदिनीम् ॥२१॥ विद्याधर्याः कथा बभूव काञ्चनपुरीत्याख्यया नगरी पुरा। तस्यां च सुमना नाम महानासीन्महीपतिः ॥२२॥ आक्रान्तदुर्गकान्तारभूमिना येन चक्रिरे। चित्रं विराजमानेन तादृशा अपि शत्रवः ॥२३॥ तमेकदास्थानगतं प्रतीहारो व्यजिज्ञपत्। देव मुक्ताक्षिता नाम निषादाधिपकन्यका ॥२४॥ पञ्जरस्थितमादाय शुकं द्वारि बहिः स्थिता। वीरसेनेनानुगता भ्रात्रा तव दिदृक्षते ॥२५॥ १ इयमेव कथा कादम्बरीमूलभूता।