कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 821, कुल 1079 में से
संदर्भ में पढ़ें३७४ कथासरित्सागर इत्युक्त्वाऽथ दमनको गच्छ क्षमतोऽसि चेदिति। गदितस्तेन सिंहेन स ययौ यमुनातटम्॥६३॥ तत्र शब्दानुसारेण यावत्त्वरं स गच्छति। तावत्तृणानि खादन्तं वृषभं तं ददर्श सः ॥६४॥ उपेत्य चान्तिकं तस्य कृत्वा तेन च संविदम्। गत्वा तस्मै स सिंहाय यथावस्तु शशंस तत्॥६५॥ महोक्षः स त्वया दृष्टः संस्तवश्च कृतो यदि। तदिहानय तं भुक्त्वा तावत्पश्यामि कीदृशः ॥६६॥ इत्युक्त्वा स प्रहृष्टस्तं सिंहः पिङ्गलकस्ततः। वृषस्य प्राहिणोत्तस्य पार्श्वं दमनकं पुनः॥६७॥ एह्याह्वयति तुष्टस्त्वामस्मत्स्वामी मृगाधिपः। इति गत्वा दमनकेनोक्तः स वृषभो भयात् ॥६८॥ यदा न प्रतिपेदे तत्सदा गत्वा पुनर्वनम्। तं निजस्वामिनं सिंहं तस्याभयमदापयत्॥६९॥ एत्याभयेन चाश्वास्य ततः सञ्जीवकं स तम्। वृषभं तं दमनकोऽनयीत् केसरिणोऽन्तिकम् ॥७०॥ स चागतं तं प्रणतं दृष्ट्वा सिंहः कृतादरः। उवाच हैव तिष्ठ त्वं मत्पार्श्वे निर्भयोऽधुना॥७१॥ तथेति तेन तत्रस्थेनाहृतः स तथा क्रमात्। उक्त्या यथान्यविमुखस्तद्गतोऽभूत्स केसरी ॥७२॥ ततो दमनकोऽवादीत्खिन्नः करटकं रहः। पश्य सञ्जीवकवृतः स्वामी नावामवेक्षते ॥७३॥ एक एवामिषं भुङ्क्ते न भागं नौ प्रयच्छति। मूढबुद्धिः प्रभुश्चायमुख्यानेनाथ शिक्ष्यते ॥७४॥ कृतो मयैव दोषोऽस्य यदेवं वृषमानयम्। तत्पाहं करिष्यामि यथोक्षाय विस्रक्ष्यति॥७५॥ मस्यान्मव्यसनाच्चायं निवर्त्स्यति यथा प्रभुः। एतद्दमनकाच्छ्रुत्वा वचः करटकोऽथ सः॥७६॥ सखे न कर्तुमधुना शक्यमेतद्भवताऽपि। ततो दमनकोऽवादीच्छक्ष्यामि प्रज्ञया ध्रुवम् ॥७७॥