कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 827, कुल 1079 में से
संदर्भ में पढ़ें४८० कथासरित्सागर
प्रतिसिंहं स कोपेन तद्वधाय मृगाधिपः । आत्मानमक्षिपत्कूपे मूढोऽत्र व्यपादि च ॥१०५॥ शशः स प्रज्ञयोत्तीर्य मृत्योरुत्तार्य चाखिलान् । मृगान् गत्वा तदाख्याय स्ववृत्तं ताननन्दयत् ॥१०६॥ एवं प्रज्ञैव परमं बलं न तु पराक्रमः । यत्प्रभावेन निहतः शशकेनापि केसरी¹ ॥१०७॥ तदहं साधयाम्येव प्रज्ञया स्वमभीप्सितम् । एवं दमनकेनोक्ते तूष्णीं करटकोऽभवत् ॥१०८॥ ततो दमनकश्चापि तस्य पिङ्गलकस्य सः । सिंहस्य स्वप्रभोरासीदन्तिके दुर्मना इव ॥१०९॥ पृष्टश्च कारणं तेन तमुवाच जनान्तिकम् । बुद्ध्वा न युज्यते तूष्णीं स्थातुं चेन्न वदाम्यतः ॥११०॥ अनियुक्तोऽपि च ब्रूयाद्यदीच्छेत् स्वामिनो हितम् । तद्विहायायमागुण्ठिं मद्विज्ञप्तिमिमां शृणु ॥१११॥ भूप सञ्जीवकोऽयं त्वां हत्वा राज्यं चिकीर्षति । मन्त्रिणा हि सतानेन त्वं भीरुरिति निश्चितः ॥११२॥ धुनोति त्वां जिघांसुश्च शृङ्गाग्रमुग्रं निजायुधम् । निर्मर्यादो जयेष्वस्य मयि राज्ञि तृणाशने ॥११३॥ तदेतं हन्मो युष्मासु मृगेन्द्र मांसभोजनम् । आश्वास्योपजपन्त्येवं प्राणिनश्च वने वने ॥११४॥ तदेतं चिन्तय नृप नास्त्यस्मिन्सति शर्म ते । एवं दमनकेनोक्ते स तं पिङ्गलकोऽभ्यधात् ॥११५॥ बलीवर्दो वराकोऽयं किं कुर्यात्तृणभुङ्मम । दत्ताभयं कथं हन्यामहं च शरणागतम् ॥११६॥
[FN1] १ पञ्चतन्त्रहितोपदेशयोरियं कथा— [FN2] बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । [FN3] पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ [FN4] —इति शीर्षकयोल्लिखिताऽप्यन्या ।