भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 829, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 829

४८२ कथासरित्सागर

एतच्छ्रुत्वा दमनकः प्राह मा स्मैवमादिथः। यस्तुष्ट्यै क्रियते राज्ञा न तदुच्छ्रीः प्रसर्पति ॥११७॥ द्वयोर्दत्तपदा सा च तयोरुच्छ्रितयोश्चला¹। न शक्नोति स्थिरं स्थातुं ध्रुवमेकं विमुञ्चति ॥११८॥ प्रभुश्च यो हितं दृष्ट्वा सेवेत चाहितं सदा। स वर्जनीयो विद्वद्भिर्भवेद्वैद्यैर्दुष्टातुरो यथा ॥११९॥ अप्रियस्य प्रथमतः परिणामे हितस्य च। वक्ता श्रोता च यत्र स्यात्तत्र श्रीः कुरुते पदम्² ॥१२०॥ न शृणोति सतां मन्त्रमसतां च शृणोति यः। अचिरेण स सम्प्राप्य विपदं परितप्यते ॥१२१॥ तदस्मिन्सुदृशि कः स्नेहस्तव देव किमस्य वा। दुष्टतोऽभयदानं तच्छरणागतता च का ॥१२२॥ किं चैतस्य भवत्पार्श्वे नित्यसन्निहितस्य गोः। एव कीटाः प्रजायन्ते ये तन्मूत्रपुरीषयोः ॥१२३॥ ते दंशिष्यन्ति मत्तेमदन्ताघातव्रणावृते। शरीरे भवतः किं न मृतः स्याद्युक्तितो वधः ॥१२४॥ दुर्मन्त्रकृत् स्वयं पापं विपश्चिन्ना करोति यत्। उत्पद्यते स तत्सङ्गादत्र च श्रूयतां यथा ॥१२५॥

मन्दविसर्पिण्या यूकाया मत्कुणस्य च कथा

राज्ञः कस्यापि शयने चिरमासीदलक्षिता। यूका कुतश्चिदागत्य नाम्ना मन्दविसर्पिणी ॥१२६॥ अकस्माच्चात्र चोपेक्ष्य कृतोऽपि पवनैरितः। विवेश शयनीयं तट्टिट्टिभो नाम मत्कुणः ॥१२७॥ मन्निवासमिमं कस्मादागतस्त्वं प्रजान्यतः। इति मन्दविसर्पिण्या स दृष्ट्वा जगदे तया ॥१२८॥


१ अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादावुपतिष्ठते श्रीः। सा स्त्री स्वभावादसहाभरस्य तयोर्द्वयोरेकतरं जहाति॥ —मुद्राराक्षसे। २ अप्रियस्य च पथ्यस्य श्रोता वक्ता च दुर्लभः। —इति मारिचिरमुत्सस्नेवेः।