कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 831, कुल 1079 में से
संदर्भ में पढ़ें७८४ कथासरित्सागर अपीतपूर्व पास्यामि राजासृक्¹ तत्प्रसीद मे। एहीह वस्तुमिति तामवादीत्सोऽपि टीटिभः ॥१२९॥ ततोऽनुरोधादाह स्म सा त यद्येवमास्स्व तत्। किं त्वस्य राज्ञो नाकाले दंशो देयस्त्वया सखि ॥१३०॥ दयोऽस्य दंशः सुप्तस्य त्रासक्तस्य वा लघु। तच्छ्रुत्वा टीटिभः सोऽत्र तथेत्युक्त्वा व्यतिष्ठत ॥ १३१॥ नक्तं शय्याश्रितं तं च नृपमाशु ददंश सः। उत्तस्थौ च ततो राजा 'हा दष्टो स्मीति' स ब्रुवन् ॥१३२॥ ततः पलायिते तस्मिंस्त्वरितं मत्कुणे शठे। विचित्य राजभृत्यैः सा लब्ध्वा यूका व्यपाद्यत ॥१३३॥ एवं टीटिभसम्पर्कद्विष्टा मन्दविसर्पिणी। तत्सञ्जीवकसङ्गस्ते न शिवाय भविष्यति ॥१३४॥ न मे प्रत्येषि चेत्तत्त्वं स्वयं द्रक्ष्यस्युपागतम्। शिरो धुनन् दर्पेण शृङ्गयोः क्षुण्णशातयोः ॥१३५॥ इत्युक्त्वा विकृतिं तन नीतो दमनकेन सः। सिंहः पिङ्गलकश्चक्रे वध्यं सञ्जीवकं हृदि ॥१३६॥ लब्ध्वा तस्याशयं स्वैरं क्षणाद्दमनकस्ततः। तस्य सञ्जीवकस्यागात् स विषण्ण इवान्तिकम् ॥१३७॥ किमीदृगसि किं मित्र शरीरं कुशलं सखे। इति पृष्टश्च तेनात्र कृपणं स जगाद तम् ॥१३८॥ किं सेवकस्य कुशलं कश्च राज्ञां सदा प्रियः। कोऽर्थी न लाघवं यात कः कालस्य न गोचरः ॥१३९॥ इत्युक्तवन्तं पप्रच्छ तं म सञ्जीवकः पुनः। विमुद्विग्न इव त्वं कथ्यतामोग्यतामिति ॥१४०॥ ततो दमनकोऽवादीच्छृणु प्रीत्या वदामि ते। मृगराजो विरुद्धोऽसौ जात पिङ्गलकोऽद्य ते ॥१४१॥ निरपगोऽस्थिरस्नेहो हत्वा त्वां भोक्तुमिच्छति। हृद्यं परिच्छिदं चास्य पश्यामि प्रतनं सदा ॥१४२॥ १ रक्तम्।