भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 895, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 895

श्रुत्वैतत्कीर्त्तिसामोऽसौ भ्रातृस्नेहान्वितोऽपि सन्। नैच्छद्दातुं किमप्यस्मै कष्टा कुस्त्रीषु वश्यता ॥३०८॥ यज्ञसोमस्ततस्तूष्णीं गत्वा पत्न्यै न्यवेदयत्तत्। तया सह प्रस्थितवान् दैवैकशरणस्ततः ॥३०९॥ गच्छन् प्राप्तोऽटवीं धवाद्गिीर्णोऽजगरेण सः। तद्भार्या च तदालोक्य चक्रन्द पतिता भुवि ॥३१ ॥ किमाक्रन्दसि भद्रे त्वमिति मानुषभाषया। सा तेनाजगरणोक्ता ब्राह्मणी निजगाद तम् ॥३११॥ न क्रन्दामि कथं यस्मान्महासत्त्व मम त्वया। क्षुसिताया विदेशस्थ ह्य भिक्षाभाजन वृतम् ॥३१२॥ तच्छ्रुत्वाऽजगरो वक्त्रादुद्गीर्यास्यै ददौ महत्। स्वर्णपात्रं गृहाणेदं भिक्षाभाण्डमिति ब्रुवन् ॥३१३॥ भो महाभाग भिक्षां मे दास्यत्यस्मिन् स्त्रिया इति। उक्तस्तस्या तद्ब्राह्मण्या जगादाजगरश्च सः ॥३१४॥ न दास्यत्यर्थितो योऽत्र भिक्षां ते तस्य तत्क्षणम्। शतधा यास्यति शिरः सत्यमेतद्वचो मम ॥३१५॥ तच्छ्रुत्वा ब्राह्मणी सा तमुवाचाजगरं सती। यद्येवं तत्त्वमवात्र भर्तृभिक्षां प्रयच्छ मे ॥३१६॥ इत्युक्तमात्रे ब्राह्मण्याः सत्या सोऽजगरो मुखात्। उज्जगाराक्षतं यज्ञसोमं जीवन्तमेव तम् ॥३१७॥ तमुद्गीर्यैव सपदि दिव्यः सोऽजगरः पुमान्। परितुष्टश्च तौ हृष्टौ दम्पती निजगाद सः ॥३१८॥ अहं काञ्चनवेगाख्यो विद्याधरमहीपतिः। सोऽहं गौतमशापेन प्राप्तोऽस्म्याजगरीं गतिम् ॥३१९॥ साध्वीसद्भावपर्यन्तः स च शापो ममाभवत्। इत्युक्त्वा हेमपात्रं च रत्नैरापूर्य तत्क्षणात् ॥३२०॥ विद्याधरेश्वरो हृष्टः खमुत्पत्य जगाम सः। तौ चाप्यमुतुरादाय रत्नौघं दम्पती गृहम् ॥३२१॥ तत्रास्तं यज्ञसोमोऽसावक्षयाप्तधनः सुखम्। सत्त्वानुरूपं सर्वस्य धाता सर्वं प्रयच्छति ॥३२२॥