भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 897, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 897

८४८ कथासरित्सागर मूर्खयोद्धुः कथा श्रूयतां नापितस्यार्थी मुग्धोऽत्र च पुमानयम्। कर्णाट-क्षोत्रेपि भूपं स्वं रणे शौर्यात्सतोषयत् ॥३२३॥ स प्रसन्नो नृपस्तस्याभीष्टं दत्तवान् वरम्। शस्यस्य नापितं वस्त्रं नपुंसकनिभो भटः ॥३२४॥ सर्वथैतत्प्रमाणेन सदसन्नाभिवाञ्छति। न किञ्चिन्मार्गणं चान्यन्मुग्धं शृणुताधुना ॥३२५॥ किञ्चिन्न याचकस्य मूर्खस्य कथा कश्चित्पथि व्रजन् मूर्खं शकटस्थेन केनचित्। ऊचे समं कुरुष्वैतच्छकटं मे मनागिति ॥३२६॥ समं करोमि चेत्तन्मे किं ददासीति वादिनम्। न किञ्चित्ते ददामीति शकटी निजगाद तम् ॥३२७॥ ततः स मूर्खः शकटं समं कृत्वैव तस्य तत्। तन्मे न किञ्चिद्देहीति तं ययाचे स चाहसत् ॥३२८॥ इति देव सदैव हास्यभावं परिभावं च जनस्य निन्द्यतां च। विपदास्पदतां च यान्ति मूढा इह सन्तस्तु भवन्ति पूजनीयाः ॥३२९॥ एवं स गोमुखमुखोक्तकथाविनोदैतन्निक्षम्य रजनौ सचिवैः समेतः। विश्रान्तिहेतुमनिरास्य जगत्श्रमस्य निद्रामियाय नरवाहनदत्तदेवः ॥३३०॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके पञ्चमस्तरङ्गः। षष्ठस्तरङ्गः नरवाहनदत्तकथा (पूर्वानुवृत्ता) ततः प्रातः समुत्थाय पितुर्वत्सेश्वरस्य सः। नरवाहनदत्तोऽत्र दर्शनायान्तिकं ययौ ॥१॥ तत्र पद्मावतीं देवीं भ्रातरि स्वगृहात्ततः। मागतं मगधेशस्य तनये सिंहवर्मणि ॥२॥ हृष्टस्वागतकथाप्रश्नप्रबार्बीदिवस गते। नरवाहनदत्तः स्वं मुक्त्वा मन्दिरमाययौ ॥३॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 897, कुल 1079 में से · BharatKosha