BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 91 of 1079

Read in context
Page 91

७० | कथासरित्सागर

तथेत्युक्ते तयान्येद्युस्तदुत्सङ्गस्थितश्च सः। व्योम्ना निश्चयदत्तोऽगात्सख्युरस्तस्याथ वनम्॥१९४॥ सत्र तं सुहृदं दृष्ट्वा कपिरूपमुपेत्य सः। प्रणमत्प्रियया साकमपृच्छत्कुशलं तदा॥१९५॥ अद्य मे कुशलं यत्त्वमनुरागपरायुतः। दृष्टो मयेति सोऽप्युक्त्वा सोमस्वामिकपिः किल॥१९६॥ तमभ्यनन्दत्प्रवदौ तत्प्रियायै सभाधिपम्। तत सर्वेऽप्युपाविशंस्तत्र रम्ये शिलातले॥१९७॥ धत्तूश्च सत्कथालाप ततस्तस्य कपेः कृते। [L10: आदौ निश्चयदत्तेन चिन्तितं कान्तया सह॥१९८॥ ततस्तं कपिमापृच्छ्य प्रेयसीसदनं च तत्। ययौ निश्चयदत्तो द्वामुत्पत्याङ्के धृतस्तया॥१९९॥ अन्येद्युस्तामवादीच्च सोऽनुरागपरो पुनः। एहि तस्यान्तिकं सख्युः क्षणं यावत् कपेरिति॥२००॥ सत सापि तमाह स्म त्वमेवाद्य व्रज स्वयम्। गृहाणोत्पतनीं विद्यां मत्तोऽवतरणीं तथा॥२०१॥ इत्युक्त्व स तदादाय तद्विद्याद्वितयं ततः। व्योम्ना निश्चयवत्तोऽगात्सख्युरस्तस्यान्तिकं कपेः॥२०२॥ तत्र यावत्स कुरुत तेन साकं चिरं कथाः। सानुरागपरा तावदुद्यानं निर्ययौ गृहात्॥२०३॥ तत्र तस्यां निष्पन्नायां विद्याधरकुमारकः। कोऽप्यांजगाम नभसा परिभ्राम्य यदृच्छया॥२०४॥ स दृष्ट्वैव स्मरावेशविवशस्तामुपाययौ। विद्याधरी स तां बुद्ध्वा विद्यया मर्त्यभर्तृकाम्॥२०५॥ साप्युपतं समालोक्य सुभगं विनतानना। कस्त्वं किमागतोऽसीति शनैः पप्रच्छ कौतुकात्॥२०६॥ ततः स प्रत्यबोचत्तां स्वविद्याभानशासिनम्। विद्धि विद्याधरं मुग्धे माम्ना मां राजभञ्जनम्॥२०७॥ सोऽहं सन्दर्शनादेव सहसा हरिणेक्षणे। मनोभुवा वशीकृत्य तुभ्यमेव समर्पितः॥२०८॥