भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 917, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 917

८१८ कथासरित्सागर मत्तोऽपि बलवान् मेघ स मां स्थगयति क्षणात्। तच्छ्रुत्वा तं विसृज्याथ मेघमाहूतवान्मुनिः ॥१२८॥ तं तथैव च सोऽवादीत्तेनाप्येवमवादि सः। मत्तोऽपि बलवान् वायुर्यो विक्षिपति दिक्षु माम् ॥१२९॥ इत्युक्तो तेन स मुनिर्वायुमाह्वयति स्म तम्। स तथैव च तेनोक्तस्तमेवमवदन्मरुत् ॥१३०॥ मयापि ये न चाल्यन्ते मत्तस्ते बलिनोऽद्रयः। श्रुत्वैतदथ शैलेन्द्रमाह्वयन् मुनिसत्तमः ॥१३१॥ तस्मैव यावत्तद्वक्ति तावत्सोऽद्रिर्जगाद तम्। मूषका बलिनो मत्तो ये मे छिद्राणि कुर्वते ॥१३२॥ इति क्रमेण प्रत्युक्तो दैवतैर्ज्ञानिभिः स तैः। महर्षिराजुहावैकं मूषकं वनसम्भवम् ॥१३३॥ कन्यां गृहेतामित्युक्तस्तेनोवाच स मूषकः। कथं प्रवेक्ष्यति बिलं ममेषा दृश्यतामिति ॥१३४॥ पूर्ववन्मूषिकैवास्तु वरमित्यथ स ब्रुवन्। मुनिस्तां मूषिकां कृत्वा तस्मै प्रायच्छदाश्रमे ॥१३५॥ एवं सुदूरं गत्वापि भो यावृक्तानुगेन सः। त्वमुलूको न जातु त्वं चिरजीविन् भविष्यसि ॥१३६॥ इत्युक्तश्चिरजीवी स रक्ताक्षेण व्यचिन्तयत्। नीतिज्ञस्य न चैतस्य राज्ञानेन कृतं वचः ॥१३७॥ शेषा मूर्खा इमे सर्वे तत्कार्यं सिद्धमेव मे। इति सञ्चिन्तयन्तं तमादाय चिरजीविनम् ॥१३८॥ अविचार्यैव रक्ताक्षवाक्यं तद्बलमन्वितः। उलूकराजः स ययावथर्बो निजं पदम् ॥१३९॥ चिरजीवी च तहस्तमांसाद्यशनपोषितः। तत्पार्श्वस्थोऽचिरेणैव बर्हीबाभूत् सुपक्षतिः ॥१४०॥ एकदा तमुलूकेन्द्रमथवद्देश गाम्यहम्। आश्वास्य काकराजं तमानयामि स्वमास्पदम् ॥१४१॥ येन रात्रौ निपत्याथ युष्माभिः स निहन्यते। अह भवामि चैतस्य स्वप्रसादस्य निष्कृतिम् ॥१४२॥