भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 942, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 942

८९२ कथासरित्सागर एका सा कुष्टा पापा द्वितीयेयं पतिव्रता। खण्डितस्यापि तस्येदृक्प्रभावो नियमस्य मे॥६१॥ जातिं स्मरामि यद्यञ्च रात्रौ भोगा ममादृशाः। यदि नाखण्डयिष्यं तदिव स्यां मे न जन्म तत्॥६२॥ इत्याख्याय स्ववृत्तान्तमतिथी तावपूजयत्। समृष्टभोजनैर्दिव्यवस्त्रैश्च भ्रातरावुभौ॥६३॥ ततोऽस्य सा सती भार्या पूर्ववृत्तमवेत्य तत्। विन्यस्य जानुनी भूमाविन्दुं पश्यन्त्यभाषत॥६४॥ भो लोकपालाः सत्यं चेदहं साध्वी पतिव्रता। तदम्बुवाहमुक्तोऽद्य स्वर्गं यात्वेष मे पतिः॥६५॥ इत्युक्तवत्यामवस्थां सा विमानमवातरत्। तदारूढौ च तौ स्वर्गं दम्पती सह जग्मतुः॥६६॥ असाध्यं सत्यसाध्वीनां किमस्ति हि जगत्त्रये। तौ च विप्रौ तदालोक्य विस्मयं ययतुः परम्॥६७॥ नीत्वा च रात्रिमुष ते प्रभाते स यक्षोभटः। लक्ष्मीधरश्च विप्रो तौ भ्रातरौ प्रस्थितौ ततः॥६८॥ सायं च निर्जनारण्ये वृक्षमूलमथापतुः। जलप्रेप्सू च तस्मात्तौ वृक्षाच्छ्रुणुवतुर्गिरम्॥६९॥ हे विप्रौ तिष्ठतं तावदहमाद्य करोमि वाम्। स्नानान्नपानैरातिथ्यं गृहे मे ह्यागतौ युवाम्॥७०॥ इत्युक्त्वा व्यरमद्वाक्यं जज्ञे तत्राम्बुवापिका। अथोपतस्थे तत्तीरे विचित्रं पानभोजनम्॥७१॥ किमेतदिति साश्चर्यौ ततस्तौ द्विजपुत्रकौ। स्नात्वा वाप्यां यथाकाममाहाराद्यत्र चक्रतुः॥७२॥ ततः सन्ध्यामुपास्यन्तौ यावत्तत्तले स्थितौ। तावच्च कोऽपि पुरुषस्तरोस्तस्मादवातरत्॥७३॥ स चाभिवादितस्ताभ्यां विहितस्वागतः क्रमात्। उपविष्टो द्विजातिभ्यां को भवानित्यपृच्छयत॥७४॥ ततः स पुरुषोऽब्रवीत् पुरेह दुर्गतो द्विजः। अभूवन् तस्य न जाता देवान्धभ्रमणसङ्गतिः॥७५॥