कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 982, कुल 1079 में से
संदर्भ में पढ़ें१९८ कथासरित्सागर स च नीतं स्वभार्यां तां दृष्ट्वा गोपालचुम्बितः। उत्थायैव कृताश्लेषां रुद्रसोमो व्यचिन्तयत् ॥१२३॥ सन्निकृष्टे निकृष्टेऽपि कष्टं रज्यन्ति कुस्त्रियः। पापानुactionरक्ता यदियं गोपेऽप्यासनवर्त्तिनि ॥१२४॥ इति ध्यायन् मिषं कृत्वा तत्रवास्फुटया गिरा। निर्गत्यैव विरक्तात्मा धनदेवान्तिकं ययौ ॥१२५॥ उक्तस्वगृहवृत्तान्तो वणिजं समुवाच सः। त्वया सहाहमप्यमि वनं यातु गृहं क्षयम् ॥१२६॥ इत्य्रूचिवान् रुद्रसोमो धनदेववणिक् च सः। वनं प्रति प्रतस्थाते सर्वैष सह तौ यतः ॥१२७॥ मिलितश्च तयो मार्गे धनदेवसुहृच्छशी। कथाप्रसङ्गात् तौ तस्मै स्ववृत्तान्तं शशंसतुः ॥१२८॥ स तच्छ्रुत्वा शशीप्यर्त्तुश्चिराद्धान्तरागतः। साशङ्कोऽभूत्स्वगेहिन्यां न्यस्तायामपि भूगृहे ॥१२९॥ प्रक्रमंश्च समं ताभ्यां सायं स स्वगृहान्तिकम्। शशी प्राप गृहातिथ्यं तयोः कर्तुमियेष च ॥१३०॥ तावच्च दुर्गन्धवहं कुष्ठीर्णकराङ्घ्रिकम्। तत्रापश्यत् सशृङ्गारं गायन्तं पुरुषं स्थितम् ॥१३१॥ विस्मयाच्च तमप्राक्षीदीदृशः को भवानिति। कामदेवोऽहमस्मीति कुष्ठी सोऽपि जगाद तम् ॥१३२॥ का भ्रान्तिः कामदेवस्त्वं रूपशोभैव वक्ति ते। इत्युक्तः शशिना भूयः सोऽवादीच्छृणु वच्मि ते ॥१३३॥ इह धूर्त्तः शशी नाम वसत्कपरिवारिकाम्। भार्यां निक्षिप्य भूगेहे सोऽप्यों देशान्तरं गतः ॥१३४॥ तद्भार्यया विविक्ताविह दृष्टस्य मे तया। अर्पितः सद्य एवात्मा मदनाकृष्टचित्तया ॥१३५॥ तया समं च सततं रात्रौ रात्रावहं रमे। पृष्ठे गृहीत्वा तद्दासी प्रवेशयति तत्र माम् ॥१३६॥ तद् ब्रूहि किन्न कामोऽहं प्राप्य कल्यान्ययोषिताम्। यच्चित्राकारधारिण्या भार्यया शशिनः प्रियः ॥१३७॥