भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 984, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 984

९२ कथासरित्सागर एतत्कुष्ठिवचः श्रुत्वा शशी निर्भातिदारुणम्। दुःखं निगृह्य जिज्ञासुर्निश्चयं समुवाच सः॥१३८॥ सत्यं भवसि कामस्त्वं तदद्य त्वाहमार्चये। स्वतः श्रुतायामुत्पन्नं तस्यां कौतूहलं मम॥१३९॥ तदद्यैव निशां तत्र त्वद्वेषेण विशाम्यहम्। प्रसीदान्वहरन्म्येऽर्थे सद्यात्र कियती क्षतिः॥१४०॥ इत्युक्तः शशिना तेन स कुष्ठी तमभाषत। एवमस्तु गृहाणेमं मद्वेषं देहि मे निजम्॥१४१॥ तिष्ठाहमिह संवेष्ट्य पाणिपादं च वाससा। यावदायाति सा तस्या दासी तमसि जृम्भिते॥१४२॥ मबुद्ध्या च तया पृष्ठे गृहीतोऽङ्गमिव व्रज। अहं हि पादवैकल्याद् गच्छाम्यत्र तथा सदा॥१४३॥ इत्युक्तः कुष्ठिना सोऽथ शशी तद्वेषमाश्रितः। तत्रासीत् तत्सहायौ तौ कुष्ठी चासन् विदूरतः॥१४४॥ अथागत्य तया कुष्ठिवेषो दृष्टः स तद्विदा। एहीत्युक्त्वा शशीमार्यादास्र्या पृष्ठेऽप्यरोप्यत॥१४५॥ निन्ये च नक्तं स तया स्वभार्यायास्ततोऽन्तिकम्। कुष्ठिजारप्रतीक्षिण्यास्तस्यास्तद्भूगृहान्तरम् ॥१४६॥ तम्रान्धकारे शोचन्तीमङ्गस्पर्शन सा ध्रुवम्। स्वभार्यामेव निश्चित्य स वैराग्यमगाच्छशी॥१४७॥ क्षतस्तस्यां प्रसुप्तायां निर्गत्यादृष्ट एव सः। जगाम धनदेवस्य खसोमस्य चान्तिकम्॥१४८॥ आख्याय च स्ववृत्तान्तं तयोः खिन्नो जगाद सः। हा धिङ्निम्नाभिपातिभ्यो लाला दूराम्मनोरमाः॥१४९॥ सुक्षोभ्या न स्त्रियः कस्याः पातुः स्वभ्रापगा इव। यद्येषा भूगृहस्थापि भार्या मे कुष्ठिनं गता॥१५०॥ तन्ममाऽपि वनं श्रेयो धिग्गृहानिति स ब्रुवन्। समदुःखसखिब्रप्रमुखस्तामनयन्निशाम् ॥१५१॥ प्रातस्त्रयोऽपि सहिताः प्रस्थितास्ते वनं प्रति। सवापीकतलं प्रापुर्दिनान्ते पथि पादपम्॥१५२॥