कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 986, कुल 1079 में से
संदर्भ में पढ़ें१३२ कथासरित्सागर भुक्तपीताश्च ते रात्रौ तदारुह्य तरी स्थिताः। अपश्यन् पान्थमागत्य सुप्तमेकं तरोरधः ॥१५३॥ क्षणाच्च ददृशुर्वापीमध्यादपरमुद्गतम्। पुरुषं वदनोद्गीर्णसस्त्रीकशयनीयकम् ॥१५४॥ उपभुज्य स्त्रियं तां स सुष्वाप शयनीयके। स्त्री च दृष्ट्वैव सञ्जग्मे पान्थेनोत्थाय तत्र सा ॥१५५॥ कौ युवामिति पृष्टा च रतान्ते तेन साब्रवीत्। नाग एषोऽहमेतस्य भार्यैषा नागकन्यका ॥१५६॥ मामुद्वम्य च ते यस्मात् पान्थानां नवतिर्मया। नयाधिकोपभुक्तैव पूरितं तु शतं त्वया ॥ १५७॥ एवं वदन्ती सा तं च पान्थं दैवात् प्रबुध्य सः। नागो दृष्ट्वा मुखाज्ज्वालां मुक्त्वा भस्मीचकार तौ ॥१५८॥ न शक्या रक्षितुं यत्र देहान्तर्निहिता अपि। स्त्रियस्तन्न गृहे तासां का वार्त्ता धिग्धिगेव ताः ॥१५९॥ इति नागे गते वापीं प्लवन्तस्ते त्रयो निशाम्। शशिप्रभृतयो नीत्वा निभृताः प्रययुर्वनम् ॥१६०॥ तस्मिन् मैत्र्याद्यविकलचतुर्भावनाम्यासशान्ते क्षिप्रं सम्यङ्नियतमतयः सर्वभूतेषु सौम्याः। प्राप्ताः सिद्धिं निरुपमपरानन्दभूमौ समाधौ जग्मुर्मोक्षं क्षपिततमसस्ते त्रयोऽपि क्रमेण ॥१६१॥ ता योषितस्तु तेषां निजपापविपाकजनितकष्टदशाः। अचिरादेव विनष्टा दुष्टा लोकद्वयभ्रष्टाः ॥१६२॥ एवं मोहप्रभवो रागो न स्त्रीषु कस्य दुःखाय। तास्वेव विवरुभूता भवति विरागस्तु मोक्षाय ॥१६३॥ इति गोमुखतः कथाविनोदं सविधाच्छक्तियशःसमागमोत्कः। पुनरेष स वत्सराजसूनुश्चिरमाकर्ण्य शनैर्जगाम निद्राम् ॥१६४॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके अष्टमस्तरङ्गः।