किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 102, कुल 707 में से
संदर्भ में पढ़ें| ७२ | किरातार्जुनीयम् | [प्रथमः |
|---|
कृत्य कृतो ग्रन्थः किरातार्जुनीयम् । प्रतिसर्गान्तेसर्गान्तःपातिपद्येभ्यो भिन्नपद्यस्य निवेशः काव्यलक्षणसूचकः यथोक्तम् 'एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः। पद्यमेतन्मालिनीनामकम्, यथोक्तं छन्दोमञ्जर्यान् 'ननमयययुतेयं मालिनीभोगिलोकैः।' अनेन लक्षणमुदाहरणञ्चैतदुभयमपि तत्र निगदितम् । तत्र तावद् 'गण' शब्देन वर्णत्रयं गृह्यते, यथा-विमलं कमलं बराकी सिंहनी, जरठो वृषभ इत्यादि ॥ अत्र वर्णत्रये यदि सर्वं गुरुवस्तदा 'मगणः' प्रोच्यते, सा यथा, राजानः, देवेशाः, गौरीशाः, मान्धाता । तत्र गुरूबाधकम् = ऽ, लघुबाधकम् = । मगणः = ऽऽऽ, यथा कालिन्दी, यत्रादिमो लघुर्मध्यान्त्यौ गुरू, स यगणः = । ऽऽ, इत्यादि, एषां सोदाहरणनामानि प्रदर्श्यन्ते--
| गणनाम | लक्षणं | उदाहरणम् |
|---|---|---|
| मगणः | ऽऽऽ | मान्धाता |
| यगणः | ।ऽऽ | भवानी, हिमानी, सुशीला, सलीला, |
| रगणः | ऽ।ऽ | शैलजा, कालिका, तारिणी, जानकी, |
| सगणः | ।।ऽ | गिरिजा, दयिता, विधिना, मुनिना |
| तगणः | ऽऽ। | देवेश, गौरिश, |
| जगणः | ।ऽ। | कदापि, गणेश महेश, उमेश, |
| भगणः | ऽ।। | पादप, नारद, यादव, भारत, |
| नगणः | ।।। | नयन, कमल, अमल, परम, |
तत्र पूर्वोक्तलक्षणेन यत्र पद्यपादे नयनमयया गणः, तयाऽष्टभिस्ततः सप्तभिर्वर्णविश्रामस्तन्मालिनीसंज्ञम् ।
यथाऽत्र तल्लक्षणे एव गणान् विरच्य प्रदर्श्यते--
| न | न | म | य | य |
|---|---|---|---|---|
| ⎴ | ⎴ | ⎴ | ⎴ | ⎴ |
| । । । | । । । | ऽ ऽ ऽ | । ऽ ऽ | । ऽ ऽ |
'न न म य य युतेयं मालिनी भोगिलोकैः' स्वरूपदर्शनेन गणविन्यासः स्फुटः। तथा च 'ननमयययुतेयम्' एतावन्तो वर्णा एकहेल्योच्चार्यन्ते, तदा तदन्ते विश्राम उचित एव । ततः पादान्तं यावदेकहेलयाऽष्टभिः पूर्वं पश्चात्सप्तभिर्विश्राम इति स्फुटमस्ति । एवं सर्वेषा छन्दसां लक्षणं ज्ञातव्यमिति ॥४६॥
श्रीगङ्गाधरशर्मणा विरचितया सुधाभिधया व्याख्यया विभूषिते
किरातार्जुनीयकाव्ये प्रथमः सर्गः समाप्तः।