भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 107, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 107

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। १९

सुधापरिणामसुखे = अन्तसुखप्रदे, गरीयसि = महदभिप्रायवति, क्षतौजसां = क्षीणबलानाम्, व्यथके = मर्मस्पर्शकरे, अतिवीर्यवति = परमशक्तिशालिनि, अल्पीयसि = परिमिताक्षरे, अस्मिन् = पूर्वप्रोक्ते, वचसि = द्रौपदीवचनसमूहे, भेषजे = औषधे, इव, बहुः = अजस्रः, गुणः = मात्राप्राशस्त्यावहत्वादिकः, दृश्यते = विलोक्यते।

अथ भेषजपक्षे—परिणामसुखे = सेव्योत्तरसमयसुखावहकरे, तत्कालानिष्टत्वेऽपीति शेषः। गरीयसि = गुरुपाके, चिरवीर्ये, वा महामूल्यकद्रव्ये, क्षतौजसां = क्षयितरुग्णानाम्, नितान्तरोगिणामित्यर्थः, व्यथके = विशेषमात्रादानेन क्लेशकरे परिमितमात्रायाञ्चारोग्ये इति भावः। अर्थात् चन्द्रोदयादिवेगप्रभृतिद्रव्यस्य नैषधिकं सेव्यते तदा गुणार्येऽथा हानिरैव महती न तद्गोप्यते इति भावः। तथा अतिवीर्यवति = अत्यधिकसामर्थ्यसम्पत्तिशालिनि, अल्पीयसि = लघुतमपरिमाणकेऽपि भेषजे = औषधे, अस्मिन् वचसि = द्रौपदीवाक्ये, इव, बहुः = अनेकः, गुणः = आरोग्य-वीर्य-कान्ति-स्फूर्ति-प्रभृतिरूपः, दृश्यते = अनुभूयते इति भावः ॥ ७ ॥

समासः—परिणामे सुखं यस्मिन् तस्मिन् परिणामसुखे। क्षतमोजो येषां ते क्षतौजसस्तेषां क्षतौजसाम् ॥ ७ ॥

व्याकरणम्—गरीयसि = गुरु + ईयसुन्। दृश्यते = दृश् + कर्मणि लट् ॥ ७ ॥

वाच्यान्तरम्—परिणामसुखे गरीयसि, क्षतौजसां व्यथके, अस्मिन् वचसि, अतिवीर्यवति अल्पीयसि भेषजे इव बहुं गुणं पश्यामि ॥ ७ ॥

कोषः—'परिणामोऽवसानं स्यात्परिपाकवृद्धावपि च' इति कोषः। 'व्यथा तु रुग्विद्पीडा' 'आक्षिप्तं व्यथनं वचः' इत्यमरः। भेषजौषधभैषज्यान्यगदो जायुगित्यपि इत्यमरः। 'ओजो दीप्तौ बले स्रोत' इत्यमरः ॥ ७ ॥

सारार्थः—यथा स्वल्पमपि महौषधं परिणामसुखकरं भवति, तथा च निष्फलोत्साहानामुत्साहवर्धकञ्च, तथैव संक्षिप्तमपि सारवत्तरं महाभिप्रायगर्भितं द्रौपदीवाक्यं परिणामसुखदं वर्तते ॥ ७ ॥

भावार्थः—अन्त में सुख देनेवाली, गूढ़ अर्थवाली और दुर्बलों को उत्तेजना देनेवाली द्रौपदी की बात में परम शक्तिमान् थोड़े से औषध के समान विशेष (बड़े ही) गुण देखने में आते हैं ॥ ७ ॥

सत्यमेवं तथापि मह्यं न रोचते, किं करोमीत्यत आह—

इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती।
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥८॥

इयमिति। रुचिरार्था महितार्थसम्पन्नेति रुचिरहेतूक्तिः। इयं भारती द्रौपदीवाक्यमिष्टगुणाय। गुणग्राहिण इत्यर्थः। भवते तुभ्यमपि। 'रुच्यर्थानां प्रीयमाणः'