किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 117, कुल 707 में से
संदर्भ में पढ़ेंसर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ७९
वृद्धत्वम्, उद्योगमिति यावत्। लोकः = जनः, नियतिम् = दैवम्, भाग्यमिति, वासवं वा इन्द्रम्, अनुरुध्यते = अनुसरति।
अथ लोकपक्षे व्याख्यायते = कृतपञ्चाङ्गविनिर्णयः = सम्यग्विहितपञ्चाङ्गपत्रविचारः, नयः = न्यायवान्, गणक इति शेषः। कोशदण्डयोः = अर्थशासनयोः। प्रभवः = उत्पादको भवति, नहि पञ्चाङ्गपत्रं विना धनं, तिथ्यादीनां घटीपलं च ज्ञायते। एवम्भूतः सः = विचारवान्, विधेयपदेषु = कर्तव्यलक्षणेषु वा कृत्यवस्तुषु, च कार्यस्थानेषु राज्ञ इति शेषः। दक्षतां = स्फूर्तिम्, लोकः = अवलोककः, जन्मपत्रद्रष्टा गणक इति, नियतिम् = भाग्यम्, इव, अनुरुध्यते = अनुसरति। यथैव भावी, तथैव गणको वदति, नैवंविधस्य गणकस्य कथनं मिथ्या भवतीति भावः ॥ १२ ॥
समासः — कोशश्च कोशदण्डौ तयोः कोशदण्डयोः। पञ्च अङ्गानि पञ्चाङ्गानि, पञ्चाङ्गानां विनिर्णयः पञ्चाङ्गविनिर्णयः, कृतः पञ्चाङ्गविनिर्णयो येन यस्य वा सः कृतपञ्चाङ्गविनिर्णयः। विधेयानां पदानि विधेयपदानि तेषु विधेयपदेषु ॥ १२ ॥
व्याकरणम् — अनुरुध्यते = अनु + रुध + श्यन् + लट् ॥ १२ ॥
वाच्यान्तरम् — कृतपञ्चाङ्गविनिर्णयेन नयेन कोशदण्डयोः प्रभवेन भूयते बभूवे। तेन विधेयपदेषु दक्षता, लोकेन नियतिरिवानुरुध्यते ॥ १२ ॥
कोषः — 'सहायाः साधनोपाया विभागो देशकालयोः। विनिपातप्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते' इति कामन्दकः। 'कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः' इत्यमरः। 'दण्डोऽस्त्री शासने राज्ञो हिंसायां लगुड़े दमे। यात्रायाञ्च सैन्यभेदे' इति वैजयन्ती। 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः। 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः' इत्यमरः। 'लोकस्तु भुवने जने' इति ॥ १२ ॥
सारार्थः — यः कश्चित् राजा नीतेः पञ्चाङ्गानां परिपोषकस्तदनुसारं चलति च, तस्य धनराशिः सैन्यसमूहश्च न कदापि अल्पतां याति। परन्तु सो नीतिः सामयिक एव दक्षो जनः पालयति। नहि दीर्घसूत्रेण हतोत्साहेन पाल्यते, इति विवेचक भक्त्या सा नीतिरनुसर्तव्या ॥ १२ ॥
भावार्थः — जिस राजनीति के पाँचों अंगों का निर्णय किया जाता है, वैसी नीति, खजाना और सेनाविभाग की बुनियाद होती है। लेकिन वह नीति उसी बाजी का पीछा करती है, जैसे लोग दैव (भाग्य) ही का भरोसा रखते हैं ॥१२॥
ननु सोत्साहस्यासहायस्य कथमर्थसिद्धिरित्याह—
अभिमानवतो मनस्विनः प्रियसक्त्यैः परमार्ददक्षतः।
विनिपातनिवर्तनक्षमं मतमालम्बतमात्मपौरुषम् ॥ १३ ॥
अभिमानवत इति। अभिमानवतो सोऽवग्रहेन निमग्निसमूर्ध्वस्थानं पदं चतुरं राज्यादिकमारुरुक्षत आरोहुमिच्छतः प्राप्नुकामक मनस्विनो धीरस्य परमार्ददक्षतः