किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 149, कुल 707 में से
संदर्भ में पढ़ेंसर्गः १] घण्टापथ-सुधान्याख्याद्वयोपेतम् १११
पदम् । ते खल्वचिराय सम्पदां चापलाश्रयमधैर्यनिबन्धनमयशो दुष्कीर्तिं जनयन्ति। आश्रयदोषादस्यैवं सम्पदां न स्वदोषादित्यर्थः। अजितारिषड्वर्गस्य कुतः सम्पद इति भावः ॥ ४१ ॥
अन्वयः—ये, श्रुतम्, अधिगम्य, अपि शरीरजन्मनः, रिपून्, न, विनयन्ते, ते, खलु, अचिराय, सम्पदां, चापलाश्रयम्, अयशः, जनयन्ति ॥ ४१ ॥
सुधा—ये = केचन श्रीमन्तः, श्रुतम् = राजनीतिप्रभृतिशास्त्रम्, अधिगम्य = अधीत्य, सम्यगवगत्येति भावः। अपि, शरीरजन्मनः = स्वदेहजातान्, रिपून् = शत्रून्, कामक्रोधादीनित्यर्थः। न विनयन्ते = न दूरीकुर्वन्ति, ते = कामक्रोधादि-वशीकृताः, खलु = निश्चयेन, अचिराय = सत्वरमेव, सम्पदां = श्रियाम्, चापला-श्रयम् = चाञ्चल्यमूलकम्, अयशः = अपकीर्ति, जनयन्ति = उत्पादयन्ति ! शान्त-चित्ता एव धनवन्तो भूत्वा यशस्विनी भवन्ति। अशान्तास्तु धनवन्तसन्तो जन्तूनकारणंमेव निघ्नन्तो झटिल्येवापयशो लभन्ते इति भावः ॥ ४१ ॥
समासः—शरीराजन्म येषां तान् शरीरजन्मनः। चपलस्य भावश्चापलम्, चापलमाश्रयो यस्य तत् चापलाश्रयम्, तत् ॥ ४१ ॥
व्याकरणम्—अधिगम्य = अधि + गम् + क्त्वा + ल्यप् । विनयन्ते=वि + नी + लट् । जनयन्ति = जन् + णिच् + लट् ॥ ४१ ॥
वाच्यान्तरम्—यैः श्रुतमधिगम्यापि शरीरजन्मनो रिपवो न विनीयन्ते, तैः सम्पदां चापलाश्रयमयशश्चिराय जन्यते ॥ ४१ ॥
कोषः—'श्रुतं शास्त्रावघृतयोः' इत्यमरः । रिपौ वैरिसपत्नारिद्विषद्वेषणदुहृदः' इत्यमरः। 'गात्रं वपुः संहननं शरीरं वर्म विग्रह' इत्यमरः । 'यशः कीर्तिः समज्ञा च' इत्यमरः ॥ ४१ ॥
सारार्थः—ये राजानः शास्त्रमपि सम्यक् पठित्वा असमये कामक्रोधादीन् देह-जायमानानपि शत्रून् न निवारयितुं शक्नुवन्ति, ते कथं बहिर्गतशत्रून् हनिष्यन्ति । तथाविधाश्च भूपा ऐश्वर्यमदमत्ताः सन्तोऽन्यायमाचरन्तो झटिल्येव दुष्कीर्तिं प्रसा-रयन्ति यत्किल लक्ष्म्याः चापल्यमित्येवम्, परन्तु वस्तुतो लक्ष्म्याश्रयीभूतस्य जनस्यैव स दोषोऽस्ति, नहि लक्ष्म्या इति ॥ ४१ ॥
भाषार्थः—जो कोई शास्त्र आदि पढ़ करके भी स्वयं देह से पैदा हुए शत्रु (काम, क्रोध आदि) को नहीं हटाता वह झट लक्ष्मी की चञ्चलता से होने वाले अपयश को पैदा करते हैं। अर्थात् 'सम्पत्ति चञ्चला है' ऐसी सम्पत्ति को दोष देते हैं॥
तथा क्रोधात्कार्यहानिरित्याशयेनाह—
अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।
जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥ ४२ ॥