भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 150, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 150

११२ किरातार्जुनीयम्। [ द्वितीयः

अतिपातिनेति। अतिपातितान्यतिक्रान्तानि कालः समयोऽनुरूपः साधनानि सहायादीनि यया सा तथोक्ता। तापयतीति तापनी। कर्तरि ल्युट्। टित्वान्ङीप्। स्वस्य यच्छरीरमिन्द्रियवर्गश्च तयोस्तापन्त्यक्षमा क्रोधो भवन्तं जनवत्पृथग्जनमिव। 'तेन तुल्यम्—' इति वतिप्रत्ययः। तेनेवार्थो लभ्यते। 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययम्। नयसिद्धेर्नयसाध्यफलादपनेतुं पृथक्कर्तुं नार्हति। असमयप्रारब्धकार्या- त्सन्तापादतिरिक्तं फलं नास्तीत्यर्थः॥ ४२ ॥

अन्वयः—अतिपातितकालसाधना, स्वशरीरेन्द्रियवर्गतापनी, अक्षमा, जनवद्, भवन्तं, नयसिद्धेः, अपनेतुम्, न, अर्हति ॥ ४२ ॥

सुधाअतिपातितकालसाधना = अतिक्रान्तसमयसहाया, सामयिकसाहाय्य- विघटनकरीति भावः। स्वशरीरेन्द्रियवर्गतापनी = आत्मदेहेन्द्रियगणदाहिका अक्षमा = अक्षान्तिः, क्रोध इत्यर्थः। जनवत् = अनधीतनीतिनरवत्, प्राप्यमूर्खजनवद् इवेत्यर्थः। नानाऽगमज्ञाननिपुणं त्वामिति भावः। नयसिद्धेः = नीतिसाध्यफलात्, न अपनेतुम् = दूरीकर्तुम्, अर्हति = योग्या भवतीत्यर्थः ॥ ४२ ॥

समासः—कालश्च साधनानि च (इति द्वन्द्वसमासः) कालसाधनानि, अतिपातितानि कालसाधनानि यया, वा अतिपातिते कालसाधने यया सा, अतिपातितकालसाधना। इन्द्रियाणां वर्गः इन्द्रियवर्गः, शरीरञ्चेन्द्रियवर्गश्च तयोस्तापनी शरीररेन्द्रियवर्गतापनी। नयस्य सिद्धिर्नयसिद्धिस्तस्याः (पञ्चमी) नयसिद्धेः ॥ ४२ ॥

व्याकरणम्—अर्हति = अर्ह् + लट् ॥ ४२ ॥

वाच्यान्तरम्—अतिपातितकालसाधनया स्वशरीरेन्द्रियवर्गतापन्त्या अक्षमया जनवद् भवन्तं नयसिद्धेरपनेतुं न अर्ह्यते ॥ ४२ ॥

कोषः—'निर्वर्त्तनोपकरणानुव्रज्यासु च साधनम्' इत्यमरः। 'हृषीकं विषयीन्द्रियम्' इत्यमरः ॥ ४२ ॥

सारार्थः—सामयिककार्यविध्वंसकरो निजस्यापि शरीरप्रज्वालकः क्रोधाग्निश्चेन्मूखमिव त्वामपि स्ववशं करोति, तदा शास्त्राध्ययनस्य कुलीनतायाश्च फलं न किमपीति ॥ ४२ ॥

भाषार्थः—मौके का काम और सहायक को बिगाड़ने वाला, अपने भी देह और इन्द्रियों को जलानेवाला क्रोध मामूली आदमी के समान आपको भी न्यायतः सिद्धि के मार्ग से हटाने के लिये योग्य नहीं ॥ ४२ ॥

'दुष्टः' क्रोध इत्युक्तम्। क्षमाया गुणानाह—

उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः।
अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ॥ ४३ ॥