किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 220, कुल 707 में से
संदर्भ में पढ़ें| ३६ | किरातार्जुनीयम् | [ तृतीयः |
|---|
सारार्थः—महर्षिव्यासादेशात्समागतः स यक्षोऽर्जुनं प्रणम्य तदीयमथुरालापेनोत्पन्नानुरागः सन् प्रीतिविश्वासपात्रमेकान्तमित्रमिव तं मेने, यतः सज्जनानां सङ्गतिर्दिष्ट्यैव विश्वासमुत्पादयति ॥ ३१ ॥
भाषार्थः—उस यक्ष ने अर्जुन को प्रणाम करके मीठे बोलने वाले अर्जुन से मित्र के समान प्रेम किया। क्योंकि सज्जनों की सङ्गति जल्द विश्वास दिलाती है ॥
अथोष्णभासेव सुमेरुकुञ्जान्विहीयमानानुदयाय तेन ।
बृहद्द्युतीन्दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान्प्रपेदे ॥ ३२ ॥
अथेति ॥ अथोष्णभासा सूर्येणोदयाय पुनरुद्गमाय विहीयमानांस्त्यज्यमानानिति तमःप्राप्तिकारणोक्तिः । बृहद्द्युतीन् । सौवर्णत्वाद्दीव्यमानान्नित्यर्थः । इति तमसः सङ्कोचकारणोक्तिः । सुमेरुकुञ्जानिव । अत्र सुमेरुग्रहणं कुञ्जानां सौवर्णत्वद्योतनार्थम् । तेनार्जुनेनोदयाय श्रेयसे विहीयमानान्बृहद्द्युतीनानेकबुद्धिप्रकाशान् । पूर्ववद्विशेषणद्वयस्य प्रयोजनमनुसन्धेयम् । पाण्डुसुतान् । चतुर इति शेषः । दुःखेन कृच्छ्रेण कृत उपपादित आत्मलाभो यस्य तत्तथोक्तम् । तेषां विवेकित्वात्कथञ्चिल्लब्धोदयमित्यर्थः । तमः शोकोऽन्धकारश्च । 'तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तरे' इत्युभयत्रापि विश्वः । शनैर्मन्दम्प्रपेदे । तेषां विवेकित्वाद्भीतभीतमिवेति भावः । अत्र तमःशब्दस्य श्लिष्टत्वाच्छ्लेषानुप्राणितेयमुपमा ॥ ३२ ॥
अन्वयः—अथ उष्णभासा, उदयाय, विहीयमानान्, बृहद्द्युतीन्, सुमेरुकुञ्जान्, इव, तेन, ( विहीयमानान् बृहद्द्युतीन् ) पाण्डुसुतान्, दुःखकृतात्मलाभं, तमः, शनैः प्रपेदे ॥ ३२ ॥
व्याख्या—अथ = युधिष्ठिरसमीपादर्जुनस्य गमनानन्तरम्, उष्णभासा = सूर्येण, उदयाय = समुदयलाभाय, विहीयमानान् = त्यज्यमानान्, बृहद्द्युतीन् = काञ्चनवर्णान्, अतितेजोवतः सुमेरुकुञ्जान् काञ्चनगिरिलतागुल्मान्, इव, तेन = अर्जुनेन, उदयाय = अभ्युदयाय, शत्रुपरजयार्थमित्यर्थः । विहीयमानान् = त्यज्यमानान्, बृहद्द्युतीन् = अतिविक्रमवतः, पाण्डुसुतान् = युधिष्ठिरभीमनकुलसहदेवानित्यर्थः । दुःखकृतात्मलाभं = क्लेशवशजनितं, तमः = अन्धकारः शोकश्च, शनैः = मन्द मन्दं, क्रमशः, प्रपेदे = प्राप । इति ॥ ३२ ॥
समासः—उष्णा भासो यस्य स उष्णभास्तेनोष्णभासा । सुमेरोः कुञ्जाः सुमेरुकुञ्जास्तान् सुमेरुकुञ्जान् । बृहती द्युतिर्येषां ते बृहद्द्युतयः, तान् बृहद्द्युतीन् । आत्मनो लाभः आत्मलाभः । दुःखेन कृत आत्मलाभो येन तद् दुःखकृतात्मलाभम् । पाण्डोः सुताः पाण्डुसुतास्तान् ॥ ३२ ॥
व्याकरणम्—प्रपेदे = प्र + पद् + लिट् ॥ ३२ ॥