किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 243, कुल 707 में से
संदर्भ में पढ़ेंसर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५६
भाषार्थः—जैसे धोखे से हाथियों से सिंह के कन्धे पर के बाल नोचे जायँ, वैसे शत्रुओं से आप भी अपमानित हुए । पर अब जैसे दिन की शोभा सूर्य ही का आश्रय करती है, वैसे यह कार्य का भार आप ही की तरफ दौड़ता है ॥ ५० ॥
पूर्वँ निर्व्यवसायस्य 'स क्षत्रियः' इत्यादिना दोष उक्तः। सम्प्रति व्यवसायिनो गुणमाह—
करोति योऽशेषजनातिरिक्तां सम्भावनामर्थवतीं क्रियाभिः ।
संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥ ५१ ॥
करोतीति ॥ यः पुमानशेषजनादितरजनादतिरिक्तामधिकाम् । सर्वातिशायिनीमित्यर्थः । सम्भावनां योग्यतां क्रियाभिश्चरितैरर्थवतीं सफलां करोति । तं पुमांसं संसत्सु सभासु । 'सभासमितिसंसदः' इत्यमरः । पुरुषाधिकारे योग्यपुरुषगणनाप्रस्तावे जाते सति । पूर्यतेऽनयेति पूरणी सङ्ख्या, द्वित्वादिसङ्ख्या न समुपैति न गच्छति । अद्वितीयो भवतीत्यर्थः । तस्मादसाधारणतालाभाय त्वयाऽपि महानुत्साह आस्थेय इति भावः ॥ ५१ ॥
अन्वयः—यः, अशेषजनातिरिक्तां, सम्भावनां, क्रियाभिः, अर्थवतीं, करोति, तं, संसत्सु, पुरुषाधिकारे, जाते, ( सति ) पूरणी, सङ्ख्या, न, उपैति ॥ ५१ ॥
व्याख्या—यः = कश्चित्, अध्यवसायी 'जनः। अशेषजनातिरिक्तां = सर्वलोकातिशायिनीं, सम्भवनां = योग्यतां, क्रियाभिः = आचरणैः, अर्थवतीं = फलवतीं, वा-सार्थकां, करोति = विदधाति, तं = तादृशं जनं सकललोकदुःसाध्यकर्मसाधकमित्यर्थः। संसत्सु = सभासु, पुरुषाधिकारे = सुयोग्यजनगणनाऽवसरे, पूरणी = पूरयित्री। सङ्ख्या = द्वित्वादिसङ्ख्या, न उपैति = न प्राप्नोति । अर्थात्स जनः सर्वप्रथम एव गण्यते लोकैः, अन्ये तदितराः सङ्ख्यापूरका इत्यर्थः ॥ ५१ ॥
समासः—न शेषा अशेशाः, अशेषाश्च ते जना अशेषजनाः, तेभ्योऽतिरिक्ता या साऽशेषजनातिरिक्ता, ताम् अशेषजनातिरिक्ताम् । अर्थः फलं विद्यते यस्यां साऽर्थवती ताम् अर्थवतीम् । पुरुषाणामधिकारः पुरुषाधिकारस्तस्मिन् पुरुषाधिकारे ॥ ५१ ॥
व्याकरणम्—करोति=कृ + लट् । समुपैति = सम् + उप + इण् + लट् ॥ ५१ ॥
वाच्यान्तरम्—येनाशेषजनातिरिक्ता सम्भावना क्रियाभिरर्थवती क्रियते, स संसत्सु पुरुषाधिकारे जाते पूरणया सङ्ख्यया न समुपैयते ॥ ५१ ॥
कोषः—'सभासमितिसंसदः' इत्यमरः ॥ ५१ ॥
सारार्थ—यः कश्चित् सर्वैर्जनैरनुमितं सकललोकाधिकं बलं पौरुषञ्चाधिगम्य क्रियाभिस्तं सार्थकं करोति, सः सर्वप्रथम एव गण्यते लोकैः ॥ ५१ ॥