किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 244, कुल 707 में से
संदर्भ में पढ़ें| ६० | किरातार्जुनीयम् | [ तृतीयः |
|---|
भाषार्थः—जो कोई सब लोगों से ज्यादा बल, पौरुष को पाकर क्रिया से उसको पूरा सार्थक करता है, जब किसी सभा में आदमियों की गिनती होने लगती है, उस वक्त उसकी पहली ही संख्या होती है। अर्थात् सबसे पहले वही गिना जाता है ॥ ५१ ॥
अथ द्वाभ्यां सुलभविपक्षस्य प्रोषितस्यार्जुनस्य कर्तव्यमुपदिशति—
प्रियेषु यैः पार्थ ! विनोपपत्तेर्विचिन्त्यमानैः क्लममेति चेतः ।
तव प्रयातस्य जयाय तेषां क्रियादघानां मघवा विघातम् ॥ ५२ ॥
प्रियेध्विति ॥ हे पार्थ !, प्रियेष्वस्मासु विषय उपपत्तेः कारणाद्विनैव विचिन्त्यमानैरकस्मादेवाशङ्क्यमानैर्यैरघैश्चेतः क्लमं खेदमेति । जयाय प्रयातस्य तव सम्बन्धिनं तेषामघानां व्यसनानाम् । 'दुःखेनोध्व्यसनेष्वघम्' इत्यमरः । मघवेन्द्रः । योऽस्माभिरुपास्यत इति भावः । विघातं निवारणं क्रियात्करोतु । आशिषि लिङ् । तस्मादस्मच्चिन्तया न चेतः खेदयितव्यं जयार्थिना त्वया । अन्यथा तदसम्भवादिति भावः ॥ ५२ ॥
अन्वयः--हे पार्थ ! उपपत्तेः, विना, प्रियेषु, विचिन्त्यमानैः, यैः, चेतः, क्लमम्, एति, जयाय, प्रयातस्य, तव, तेषाम् अघानां विघातं मघवा, क्रियात् ॥ ५२ ॥
व्याख्या—हे पार्थ != पृथापुत्र अर्जुन ! इत्यर्थः । उपपत्तेः = युक्तेः, विना = अन्तरा, अकारणेनेत्यर्थः । प्रियेषु = इष्टवस्तुपु, अस्मासु विषयेष्वित्यर्थः । विचिन्त्यमानैः = सहसा शोच्यमानैः अहह !!! अस्मद्विना तत्र ते कथं वर्तन्ते ! कोऽस्मद्दितरस्तेषां दुःखत्रयं करिष्यत्यधुनेत्येवमाशङ्क्यमानैर्विषयैरित्यर्थः चेतः = चित्तं । क्लमं = खेदम् । एति = गच्छति तद्, जयाय = विजयकामाय, शत्रुपरजयहेतव इत्यर्थः । प्रयातस्य = प्रस्थितस्य, तव = भवतः, अर्जुनस्येति यावत् । तेषाम् = मनःखेदकराणाम्, अघानाम् = पापानां, विघातम् = उन्मूलनम्, मघवा = इन्द्रः, क्रियात् = करोतु । अर्थादधुना तदितरविषयेभ्यो मनः समाकृष्य सर्वथा शत्रुजयोपाय एव तद् योजनीयमिति भावः ॥ ५२ ॥
समासः—पृथायाः कुन्त्या अपत्यं पुमान् पार्थस्तत्सम्बुद्धौ हे पार्थ ! विशेषेण चिन्त्यन्त इति विचिन्त्यमानानि तैर्विचिन्त्यमानैः ॥ ५२ ॥
व्याकरणम्—इति = इण् + लट् । क्रियात्=कृ + आशिषि लिङ् ॥ ५२ ॥
वाच्यान्तरम्--हे पार्थ ! प्रियेषु विचिन्त्यमानैर्यैस्तव चेतसा क्लम् ईयते । तेषां विघातो मघोना कृषीष्ट ॥ ५२ ॥
कोषः--'उपपत्तिः सुयुक्तिः स्याद्यद्वेतुप्रतिपादनम्' इति कोषः । चित्तं तु चेतो