भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 245, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 245

. सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ६१

हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः। 'कलुषं वृजिनैनोऽघमंहोदुरितदुष्कृतम्' इत्यमरः। 'इन्द्रो मरुत्वान्मघवा विडौजाः पाकशासनः' इत्यमरः ॥ ५२ ॥

सारार्थः—स्वाभाविकं वस्त्वेतद् यत्परदेशे निवस्तो जनस्य, स्वगृहसम्बन्धि जनधनादि वस्तु स्मृत्वा स्नेहान्मनः खिद्यते । परन्तु भवता तन्न कर्त्तव्यं तथा कृते तव प्रस्तुततपःकरणे बाधा भविष्यति, अस्माकं दुःखानां नाशं तु स एवेन्द्रः करिष्यति, यत्प्रसङ्गतार्थं भवता तपो विधातुं वनं गम्यते । अर्थादिन्द्रस्य तपस्या निश्चिन्तचित्तेन कार्या, स एव भवदीय मत्रत्यमस्मदीयं च दुःखजातं दूरीकरिष्यतीति ॥ ५२ ॥

भाषार्थः—हे अर्जुन ! प्रियों में कारणों के बिना जिसको सोचने से तुम्हारा दिल घबड़ावे, जय के लिये जाते हुए तुम्हारी उस पाप-शंकाओं का नाश इन्द्र महाराज करें ॥ ५२ ॥

मा गाश्चिरायैकचरः प्रमादं वसन्नसम्बाधशिवेऽपि देशे।
मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि ॥ ५३ ॥

मा गा इति ॥ असम्बाधोऽसङ्कटः। विजन इत्यर्थः। 'सङ्कटं ना तु सम्बाधः' इत्यमरः। शिवो निर्बाधः। द्वयोरन्यतरस्य विशेष्यत्वविवक्षायां विशेषणसमासः। अस्मिन्नसम्बाधशिवेऽपि देशे चिराय चिरमेकश्चासौ चरश्चेत्येकचर एकाकी वसन् प्रमादं दौर्बल्यं मा गाः। 'इणो गा लुङि' इति गाऽऽदेशः। ननु निःस्पृहस्य ममाकिञ्चित्करः प्रमाद इति वाच्यमित्याशङ्क्याह—मात्सर्येति। मत्सर एव मात्सर्यं द्वेषो रागः स्नेहस्ताभ्यामुपहतात्मनां रागद्वेषदूषितस्वभावानां मानसानि मनांसि साधुषु सज्जनेष्वपि विषये स्खलन्ति विकुर्वते हि। अत्र प्रमादनिषेधलब्धाप्रमादरूपकारणेनार्थसिद्धिरूपकार्यस्य व्यतिरेककारणसमर्थनाद्वैधर्म्येण कार्यकारणसमर्थनरूपोऽर्थान्तरन्यासः ॥ ५३ ॥

अन्वयः—असम्बाधशिवे, अपि, देशे, चिराय, एकचरः, वसन्, (त्वम्) प्रमादं, मा गाः, हि, मात्सर्यरागोपहतात्मनां, मानसानि, साधुषु, अपि, स्खलन्ति ॥ ५३ ॥

व्याख्याअसम्बाधशिवे = असङ्कटे, शङ्काविहीन इत्यर्थः। देशे = प्रदेशे, अपि चिराय = चिरकालम्, एकचरः = एकाकी, वसन् = तिष्ठन्, सन् प्रमादम् = असावधानतां, मा गाः = नहि गच्छ। आः ! कथमिह सज्जनमुनिजनसङ्कुले कानने लोककल्याणबाधका दुष्टाः केन कारणेन स्थास्यन्ति, नहि किमपि फलं तेषामत्र वासेन। अतो यत्र तत्रासावधानतयाऽपि वसतो न काऽपि मे हानिरित्येवं न क्वापि भवताऽनुष्ठेयम्। सर्वत्र सर्वविधा जना वसन्त्येवातः सदा सर्वत्र सावधानेन